________________
॥ ७७३॥
CHETRIERRIEICHETECHERRIENCHEHRECIRCTCHEHETETS
तत्र प्रजानां विधिवत पितेव परिपालकः। जितशत्ररिति ख्यातो बभूव पृथिवीपतिः ॥२॥ आसीद् गृहपतिस्तस्मिन् नयनानन्दिदर्शनः। आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥३॥ सधर्मचारिणी तस्य रूपलावण्यहारिणी। बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ॥४॥ निधौ वृद्धौ व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च वजा गवाम् ॥ ५ ॥ तत्पुरादुत्तरमाच्या कोल्लाकाख्योपपत्तने। आनन्दस्यातिबहवो बन्धुसंबन्धिनोऽभवन् ॥ ६॥ तदा च पृथ्वीं विहरन् जिनः सिद्धार्थनन्दनः। तत्पुरोपवने दूतिपलाशे समवासरत् ॥७॥ जितशत्रुर्महीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥ ८॥ आनन्दोऽपि ययौ पद्धयां पादमूले जगत्पतेः। कर्णपीयूषगण्डूषकल्पां शुश्राव देशनाम् ॥ ९॥ अथानन्दः प्रणम्यांही त्रिजगत्स्वामिनः पुरः। जग्राह द्वादशविधं गृहिधर्म महामनाः ॥१०॥ शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु। चतस्रश्चतस्रः स्वर्णकोटीनिध्यादिगा विना ॥ ११ ॥ प्रत्याचख्यौ बजानेष ऋते च चतुरो व्रजान् । क्षेत्रत्यागं च विदधे हलपञ्चशतीं विना ॥ १२ ॥ शकटान् वर्जयामास पञ्च पञ्च शतान्यन्ते । दिग्यात्राव्यापूतानां च वहतां चानसामसौ ॥ १३ ॥ दिग्यात्रिकाणि चत्वारि स सविहनिकानि च। विहाय वहनान्यन्यवहनानि व्यवर्जयत ॥ १४॥
BHEHEHEREHEHEHEREMORRISHTHEHERHHORakamanakaHISHEICH
॥ ७७३॥
१ कोलाका०-शां.॥ २ सांवाह०-खं.॥
Jain Education Internat
For Private & Personal Use Only
nelibrary.org