SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥७७२॥ ॥७७२॥ तथा उपसर्गभ्यो निर्भीकः । तत्रोप सामीप्येन सर्जनादुपसृज्यत एभिरिति वा उपसृज्यन्त इति वोपसर्गाः, ते च तृतीयः दिव्य-मानुष-तैरश्चा-ऽऽत्मसंवेदनभेदतः । चतुष्प्रकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः ॥१॥ प्रकाशः हास्याद् द्वेषाद् विमर्शाच्च तन्मिश्रत्वाच्च दैवताः। हास्याद् द्वेषाद् विमर्शाद् दुःशीलसङ्गाच्च मानुषाः ॥२॥ श्लोकाः तैरश्वास्तु भय-क्रोधा-ऽऽहारा-ऽपत्यादिरक्षणात् । घट्टन-स्तम्भन-श्लेष-अपातादात्मवेदनाः ॥३॥ १४९-१५३ यद्वा वात-पित्त-कफ-संनिपातोद्भवा अमी। परीषहोपसर्गाणामेषां सोढा भवेदभीः ॥ ४॥ जिनेष्वाराधनाकारिषु भक्तिभाक् बहुमानभाक्, 'जिनैरपि हि संसारपारावारपारीणैः पर्यन्ताराधनाऽनुष्ठिता' इति आनन्दबहुमानात् । तथा च |श्रावक"निव्वाणमंतकिरिया सा चोदसमेण पढमनाहस्स । ककथानकम् सेसाण मासिएणं वीरजिणिदस्स छद्रेण ॥ १॥" [ आवश्यकनियुक्तौ ३०६ ] एवंभूतः सन् मरणं समाधिमरणं प्रतिपद्येत, आनन्दः श्रावको यथेति संप्रदायगम्यम् । स चायम्-- अस्त्यपास्तापरपुरं परमाभिर्विभूतिभिः। नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥१॥ १ उपसर्जना०-मु.॥ २ तुला-स्थानाङ्गसूत्रे सू० ३६१ ॥ ३ देवताः-मु.॥ ४ निर्वाणमन्तक्रिया सा चतुर्दशेन प्रथमनाथस्य। शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥ ५ आनन्दधावको-सं. संपू. मु. खं.॥ ६ तुला-पृ० ४८७ पं. १०॥ ७ इत आरभ्य ३० पर्यन्तं सर्वेऽपि श्लोकाः का प्रायोऽक्षरशः त्रिषष्टिशलाकापुरुषचरिते दशमे पर्वणि वर्तन्ते ८।२३५-२६४॥ RIGHBHICHHETHEHRESHEHEREHEHREEHRIRRIGHEHCHEHEHE Selwww.jainelibrary.org Jain Education In n For Private & Personal Use Only al
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy