________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः १४७ ॥ ७६०॥
॥७६०॥
शत्रौ रिपौ, मित्रे सुहृदि, तृणे शष्पादौ, वैणे स्त्रीसमृहे, स्वर्णे काश्चने, अश्मन्युपले, मणौ रत्ने, मृदि मृत्तिकायाम् , मोक्ष कमवियोगलक्षणे, भवे कर्मसंबन्धलक्षणे, निर्विशेषमतिस्तुल्यमतिः कदा भविष्यामि । शत्रु-मित्रादिषु निर्विशेषमतित्वमन्यस्यापि भवेत् , असौ तु परमवैराग्योपगतो मोक्ष-भवयोरपि निर्विशेषत्वमर्थयते, यदाहुः--
“मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः।" [ ] इति । एते च मनोरथाः क्रमेणोत्तरोत्तरप्रकर्षवन्तः, तथाहि--प्रथमे श्लोके जिनधर्मानुरागमनोरथः, द्वितीये तु यतिधर्मपरिग्रहमनोरथः, तृतीये तु यतिचर्याकाष्ठाधिरोहमनोरथः, चतुर्थे तु कायोत्सर्गादिमनोरथः, पञ्चमे तु गिरि-गुहाद्यवस्थितमुनिचर्यामनोरथः, षष्ठे तु परमसामायिकपरिपाकमनोरथः ॥ १४६॥ इदानीमुपसंहरति--
अधिरोढुं गुणश्रेणिं निःश्रेणी मुक्तिवेश्मनः।
परानन्दलताकन्दान कुर्यादिति मनोरथान् ॥ १४७॥ अधिरोढमारोढं गुणश्रेणिमुत्तरोत्तरगुणस्थानकरूपाम् , किंविशिष्टाम् ? निःश्रेणीमिव निःश्रेणीम् , कस्य ? मुक्तिलक्षणस्य वेश्मनो मन्दिरस्य, कुर्याद् विदध्यात् , इति श्लोकषद्केनोक्तान् मनोरथान् , किंविशिष्टान् ? परानन्दलताकन्दान् ,
१०मप्यन्य०-मु.॥
EHHRTCHESHETHEREHENRELEHETERARIETHEIGHETHEREKETER
निद्राच्छेदकाले श्रावकेण कर्तव्या मनोरथाः
Jain Education in
For Private & Personal Use Only
| www.jainelibrary.org