________________
॥ ७६१॥
5
BHBIRCTRICICICICICICICICICICICICICICICICICIRCTCHETRIBE
परश्वासावानन्दश्च स एव लता, तस्याः कन्दान् कन्दभूतान् । यथा हि कन्दाल्लता प्रभवति तथैतेभ्योऽपि मनोरथेभ्यः परो य आनन्दः परमसामायिकरूपः स प्रभवति । सप्तभिः कुलकम् ॥ १४७॥ अथोपसंहरति
इत्याहोरात्रिकी चर्यामप्रमत्तः समाचरन् ।
यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥ १४८॥ इति पूर्वोक्तक्रमेण, अहोरात्रे भवामाहोरात्रिकी चयां समाचाररूपामप्रमत्तः प्रमादरहितः समाचरन् सम्यक् कुर्वन् , उक्तं जिनागमेऽभिहितं यद् वृत्तं प्रतिमादिलक्षणं तत्र तिष्ठतीत्युक्तवृत्तस्थः, कथम् ? यथावत् सम्यग्विधिना, गृहस्थोऽपि यतित्वमप्राप्नुवन्नपि विशुध्यति क्षीणपापो भवति ।
अथ पुनः काः प्रतिमाः, यासु स्थितो गृहस्थोऽपि विशुध्यति ? उच्यते
शङ्कादिदोषरहितं प्रशमादिलिङ्गं स्थैर्यादिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शनं भय-लोभ-लज्जादिभिरप्यनतिचरन् मासमात्रं सम्यक्त्वमनुपालयति, इत्येषा प्रथमा प्रतिमा । १ ।
द्वौ मासौ यावदखण्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितानि द्वादशापि व्रतानि पालयतीति द्वितीया । २ । त्रीन् मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया । ३ ।
Jain Education Intem
For Private & Personal Use Only
jainelibrary.org