________________
॥७५९॥
BHIMROHHHHHHHHHINCHEMEHEYEKHEREHERSISTEREST
महानिशायां निशीथे कायोत्सर्गे प्रकृते प्रारब्धे पुराद् बहिर्नगराद् बाह्यपदेशे स्तम्भ इव स्तम्भवद् मयि स्कन्धकषणं । स्कन्धकण्डूयनं कदा वृषा उत्सृष्टपशवः कुर्यः करिष्यन्ति । इदं च प्रतिमाप्रतिपन्नश्रावकविषयम् , तस्यैव पुराद् बहिः कृतकायोत्सर्गस्य शिलास्तम्भभ्रान्त्या वृषभैः स्कन्धकषणसंभवः; प्रेप्सितयत्यवस्थापेक्षं वा, यतीनां जिनकल्पिकादीनां सर्वदा कायोत्सगसंभवात् ॥ १४४ ॥ तथा--
वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् ।
कदाऽऽघास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः॥१४५॥ वनेऽरण्ये पद्मासनं वक्ष्यमाणं तेनासीनमुपविष्टम् , अहिंस्रत्वेन क्रोड उत्सङ्गे स्थिता मृगार्भका मृगडिम्भा यस्य तं क्रोडस्थितमृगार्भकम् , एवंविधं मामपरिकर्मशरीरं कदा वक्त्रे आघ्रास्यन्ति, के ? मृगयूथपा मृगयूथाधिपतयः, किंविशिष्टाः ? जरन्तो वृद्धाः । जरन्तो हि यथाकथञ्चित् न विश्वसन्ति, परमसमाधिनिश्चलतासंदर्शनात् तेऽपि विश्वस्ताः सन्तो जातिस्वभावाद् | 10 वक्त्रे आजिघ्रन्ति ॥ १४५॥ तथा--
शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि। मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ॥ १४६॥
॥ ७९९ ॥
Jain Education in
For Private & Personal Use Only
Relvww.jainelibrary.org.