________________
॥७५३॥
ROMOTHEHEREHEHEROICHEREICHEECHRIREHENSHEHENSTRICHE
जङ्घ तालद्रुमाकारे पादौ शैलशिलोपमौ। कोलाहलरवोऽकाण्डाशनिध्वनिभयानकः ॥ ३० ॥ स माखुस्रजं बिभ्रत कण्ठे च सरटस्रजम् । नकुलान् कर्णिकास्थानेऽङ्गदस्थाने च पन्नगान् ॥ ३१ ॥ क्रुद्धान्तकसमुत्क्षिप्ततर्जनाङ्गलिदारुणम् । उदस्यन्नपकोशासिं कामदेवं जगाद सः ॥ ३२ ॥ अप्रार्थितप्रार्थक ! रे ! किमारब्धमिदं त्वया। किं स्वर्गमपवर्ग वा वराक ! त्वमपीच्छसि ? ।। ३३ ॥ मुश्चारब्धमिदं नो चेदनेन निशितासिना। तरोरिव फलं स्कन्धात् पातयिष्यामि ते शिरः ॥ ३४ ॥ तर्जयत्यपि तत्रैवं समाधेर्न चचाल सः। शरभः सैरिभारावैः किं क्षुभ्यति कदाचन ? ॥ ३५ ॥ कामदेवः शुभध्यानाद् न चचाल यदा तदा। व्याजहार तथैवायं द्विस्त्रिस्त्रिदशपांसनः ॥ ३६॥ तत्राप्यक्षुभ्यतः सोऽस्य क्षोभायें वपुर्व्यधात् । खशक्त्यन्तमनालोक्य विरमन्ति खला न हि ॥ ३७ ।। सोऽधत्त विग्रहं तुङ्गं सजलाम्भोदसोदरम् । सर्वतोऽप्येत्य मिथ्यात्वं राशीभूतमिवैकतः ॥ ३८ ॥ स दीर्घदारुणाकारं विषाणद्वन्द्वमुन्नतम् । धारयामास कीनाशभुजदण्डविडम्बकम् ॥ ३९ ॥ किञ्चिदाकुश्चितां शुण्डा कालपाशमिवोद्वहन् । कामदेवं जगादेवं देवः कूटैकदैवतम् ॥ ४० ॥ मायाविन् ! मुच्यतां माया सुखं तिष्ठ मदाज्ञया। पाखण्डगुरुणा केन त्वमस्येवं विमोहितः ? ॥४१॥ न चेद् मुश्चस्यमुं धर्म शुण्डादण्डेन तद् ध्रुवम् । क्रक्ष्यामि त्वामितः स्थानाद् नेष्यामि च नमोऽङ्गणे ॥ ४२॥ १०हारस्थाने-खं. ॥ २ शैरिभा०-हे. विना ॥ ३ विडम्बनम्-मु.॥ ४ पाशा-मु०॥ ५ द्रुतम्-मु०॥
HOMENEMIERIEHDHINICHIEVEMEMERIMEHCHEICHEHREHCHCHETEve
॥७५३॥
Jain Education Intel
For Private & Personal Use Only
ww.jainelibrary.org