________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः
प्रकाशः काश्लोकः १३९
॥७५०॥
॥७५०॥
5
THERCHBHBHBHIBHEHEREHEMEIGHEERIESICHHETBHETRICICHCHER
इदमपि निद्राच्छेदे चिन्तयेत्--
संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः।
धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि ॥ १३९ ॥ संसर्गेऽपि संबन्धेऽपि, उपसर्गाणां सुरादिकृतानाम् , दृढव्रतपरायणाः प्रतिपन्नव्रतपालनपराः कामदेवाद्याः कामदेवप्रभृतयः, धन्या धर्मधनं लब्धारः, त इति भगवदुपासकत्वेन प्रसिद्धाः । धन्यत्वे विशेषहेतुमाह-श्लाध्याः प्रशस्यास्तीर्थकृतां श्रीमन्महावीरस्य, पूजायां बहुवचनम् । कामदेवकथानकं च संप्रदायगम्यम् । स चायम्
अनुगङ्गं पंतद्धंसश्रेणीभिरिव चारुभिः। चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ॥१॥ भोगिभोगायतभुजस्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासीन् महीपतिः ॥ २ ॥ अभूद् गृहपतिस्तस्यां कामदेवाभिधः सुधीः। आश्रयोऽनेकलोकानां महातरुरिवाध्वनि ॥ ३ ॥ लक्ष्मीरिव स्थिरीभूता रूपलावण्यशालिनी। अभूद् भद्राकृतिर्भद्रा नाम तस्य सधर्मिणी ॥ ४॥ निधौ षट् स्वर्णकोट्यः षड् वृद्धौ षड् व्यवहारगाः। बजाः षट् चास्य दशगोसहस्रमितयोऽभवन् ॥ ५ ॥
तदा च विहरन्नुर्वी तत्रोवींमुखमण्डने। पुण्यभद्राभिधोद्याने श्रीवीरः समवासरत् ॥ ६॥ १ पतद्वंश-मु०। “ इतश्च जाह्नवीहंसश्रेणिभिरिव"-इति त्रिषष्टिशलाकापुरुषचरिते पाठः। इत आरभ्य सर्वेऽपि मानव श्लोकाः प्रायोऽक्षरशः त्रिषष्टिशलाकापुरुषचरित्रे दशमे पर्वणि वर्तन्ते ८।२६५-२७३ ॥
BEMETERRIENCETURDERRIERRENEURRENERRCHE
कामदेवकथानकम्
Jain Education Int
or Private & Personal Use Only
Baww.jainelibrary.org