________________
॥ ७४९॥
HEREHCHEHEREHENHEICHEHENSIONERSHEREDICICIRCTCHEHEME
आर्जवम् , लोभस्य सन्तोषः, मोहस्य विवेकः, मन्मथस्य स्त्रीशरीराशौचभावना, असूयाया अनभ्यसूयत्वम् , मत्सरस्य परसंपदुत्कर्षेऽपि चित्तानाबांधा च प्रतिक्रिया । इदं चाशक्यमिति नाशङ्कनीयम् , दृश्यन्ते हि मुनयस्तत्तदोषपरिहारेण गुणमयमात्मानं बिभ्रतः। अत एवाह-दोषमुक्तेषु यतिषु प्रमोदं व्रजन् । सुकरं हि दोषमुक्तमुनिदर्शनेन प्रमोदादात्मन्यपि दोषमोक्षणम् ॥ १३७॥ तथा
दुःस्थां भवस्थितिं स्थेम्ना सर्वजीवेषु चिन्तयन् ।
निसर्गसुखसगं तेष्वपवर्ग विमार्गयेत् ॥ १३८ ॥ दुःस्थां दुःखहेतुम् , भवस्थितिं संसारावस्थानम् , चिन्तयन् विमृशन् , सर्वजीवेषु तिर्यग्-नारक-नरा-ऽमरेषु, तथाहि के -तिरश्वां वध-बन्ध-ताडन-पारवश्य-क्षुत्-पिपासा-ऽतिभारारोपणा-ऽङ्गच्छेदादिमिः, नारकाणां च स्वाभाविक-परस्परोदीरित-18 परमाधार्मिककृत-क्षेत्रानुभाव वेदनामनुभवतां क्रकचदारण-कुम्भीपाक-कूटशाल्मलीसमाश्लेष-वैतरणीतरणादिभिः, नराणां च । दारिद्रय-व्याधि-पारवश्य-वध-बन्धादिभिः, सुराणां चेा-विषाद-विपक्षसंपदर्शन-मरणदुःखानुचिन्तनादिभिर्दुःस्थैव भवस्थितिः, ता स्थेम्ना स्थैर्येण चिन्तयंस्तेषु सर्वजीवेष्वपवर्ग मोक्षम् , किंविशिष्टम् ? निसर्गसुखसर्ग निसर्गेण सुखसंसर्गो यत्र |
तम् , विमार्गयेदाशंसेत्-कथं नु नाम सर्वे संसारिणः सकलदुःखविमोक्षेण मोक्षेण संयुज्येरनिति ॥ १३८ ॥ का १०भावनाम्-खं.॥ २ अनसूयत्वम्-मु.॥ ३०बाधं च प्रतिक्रियाम्-खं. ॥ ४ क्रिया मता-मु.॥ ५ दुस्थां-शां. सं.
हे.॥ ६ जां वेद०-खं.॥ ७ नु-नास्ति खं.॥ ८ मोक्षेण-नास्ति सं. खं. संपू.॥
HEHEYENERMEHEHEREHENSIONERSHSHCHCHCHCHEHECCHEHREE
॥ ७४९॥
Eelw.jainelibrary.org
Jain Education Inter
For Private & Personal use-Only
12