________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ७४८॥
सङ्कल्पः कल्पनामात्रं योनिः कारणं यस्य, न तु वास्तवं किश्चित् कारणमित्यर्थः, तेन, अनेन सकलजगत्संवेदनसिद्धेन,
तृतीयः हहा इति खेदे, विश्वं जगद् ब्रह्म-हरि-हर-संक्रन्दनप्रभृतिकं कीटपर्यवसानं तैस्तैः स्त्रीदर्शना-ऽऽलिङ्गन-स्मरणादिभिः प्रकार
प्रकाशः विडम्बितं विगोपितम् ।
श्लोकः १३७ श्रूयते हि पुराणेषु-हर-गौरीविवाहोत्सवे पुरोहितीभूतः पितामहः, गौरीमणयप्रार्थनासु हरः, गोपीचाटुकर्मणा श्रीपतिः,
॥ ७४८॥ गौतमभार्यायां रममाणः सहस्रलोचनः, बृहस्पतेर्भार्यायां तारायां चन्द्रः, अश्वायामप्यादित्यो विडम्बना पापितः। तदनेनासारेणासारहेतृद्भवेन च यद् विश्वं विडम्ब्यते तदसाम्मतम् । तत् तस्मादिदानीमस्यैव जगद्विडम्बनकर्तुः सङ्कल्पलक्षणं मूल
कामजयो मुत्खनामि उन्मूलयामि । इति स्त्रीशरीरस्याशुचित्वमसारत्वं सङ्कल्पयोन्युपकरणत्वं च विचिन्तयेदिति प्रकृतयोजना ॥१३६॥ पायवर्णनम् तथा, इदमपि निद्राच्छेदे चिन्तयेत्
यो यः स्याद्वाधको दोषस्तस्य तस्य प्रतिक्रियाम् ।
चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन ॥१३७॥ यो यो राग-द्वेश-क्रोध-मान-माया-लोभ-मोह-मन्मथा-ऽसूया-मत्सरादिर्दोषो बाधकश्चित्तमशान्तिवाहिकायाः तस्य तस्य । दोषस्य प्रतिक्रियां प्रतीकारं चिन्तयेत् , तथाहि-रागस्य वैराग्यम् , द्वेषस्य मैत्री, क्रोधस्य क्षमा, मानस्य मार्दवम् , मायाया ।
१ चिन्तनीयं-सं.॥ २ “मैत्री....क्षमा ... सन्तोषं... "विवेकं... भावनाम्"""बाधां च प्रतिक्रियाम्" इत्येवं असं. मध्ये सर्वत्र द्वितीयान्तानि पदानि ।।
SHERCICICICICICICICICKETEICHEREICICICICICICIRCKETEACTSIK
Jain Education in
nal
For Private & Personal Use Only
www.jainelibrary.org