SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ॥ ७५७ ॥ Jain Education Inten दिवानिशं रक्षणीयताप्रतिपादनार्थम् ; गृधा हि दिवा प्रभविष्णवः, गोमायवश्च रात्रौ । तत् स्त्रीशरीरस्य विपर्यासे नक्तंदिनं कामुको गृध-गोमायुरक्षणव्याकुल एव स्यात्, दूरे तत्परिभोगः ।। १३४ ।। तथा स्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः ? ॥ १३५ ॥ स्त्र्येव शस्त्रं स्त्रीशस्त्रं तेन जगद्विजयार्थमुपात्तेन, अपीत्यनादरे, चेद् यदि, कामो मन्मथः, एतज्जगत् त्रिलोक्यात्मकम्, जिगीषति जेतुमिच्छति, तदा स मूढधीः कामः तुच्छं काकादीनां यत् पिच्छं तन्मयं शस्त्रं किं नादसे कुतो हेतोर्न गृह्णाति ? । अयमर्थः यद्यसारेण रसासृग्मांसमेदोऽस्थिमज्जशुक्रपूरितेन बहुप्रयासलभ्येन स्त्रीरूपेण शस्त्रेण जिगीषत्ययम्, तदा तुच्छं पिच्छमेव सुलभमपूति च किं नादत्ते ? इदं हि विस्मृतमस्य मूढधियः, यलौकिकाः पठन्ति - ] ॥ १३५ ॥ सङ्कल्पयोनिनानेन हहा ! विश्वं विडम्बितम् । तदुत्खनामि सङ्कल्पं मूलमस्येति चिन्तयेत् ॥ १३६ ॥ "अर्के चेद् मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ? ॥ १ ॥ " [ तथा इदमपि निद्राच्छेदे चिन्तयेत् * १ ** एतदन्तर्गतः पाठो नास्ति शां. सं. संपू. हे. ।। For Private & Personal Use Only 5 10 ॥ ७४७ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy