________________
॥७४५॥
HERENCHEHREEHETCHECHEHENSEVEREHEELEVENESHEHENSIVE
चिन्तयित्वा च न ह्यागः स्मरामीति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवद् गुरुः ॥ २३२॥ स्थूलभद्रस्ततः स्मृत्वा पंपात गुरुपादयोः। न करिष्यामि भूयोऽदः क्षम्यतामिति चाब्रवीत् ॥ २३३ ॥ न करिष्यसि भूयस्त्वमकार्षीयदिदं पुनः। न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ २३४ ॥ स्थूलभद्रस्ततः सर्वसंघेनामानयद् गुरुम् । महतां कुपितानां हि महान्तोऽलं प्रसादने ॥ २३५॥ सूरिः संघ बभाषेऽथ विचक्रेऽसौ यथाधुना । तथाऽन्ये विकरिष्यन्ते मन्दसत्त्वा अतः परम् ॥ २३६ ॥ अवशिष्टानि पूर्वाणि सन्तु मत्पार्श्व एव तत् । अस्यास्तु दोषदण्डोऽयमन्यशिक्षाकृतेऽपि हि ॥ २३७॥ स संघेनाग्रहादुक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुच्छेदो भाव्यतस्तु सः ॥ २३८ ॥ अन्यस्य शेषपूर्वाणि प्रदेयानि त्वया नहि । इत्यभिग्राह्य भगवान् स्थूलभद्रमवाचयत् ॥ २३९ ॥ सर्वपूर्वधरोऽथासीत् स्थूलभद्रमहामुनिः । प्राप्य चाचार्यकं भद्रभविनः प्रत्यबोधयत् ॥ २४॥
स्त्रीभ्यो निवृत्तिमधिगम्य समाधिलीनः, श्रीस्थूलभद्रमुनिराप दिवं क्रमेण । एवंविधप्रवरसाधुजनस्य सवसंसारसौख्यविरतिं विमृशेद् मनीषी ॥ २४१ ॥ १३२ ॥
BHBHISHEKCHCHEHENRELEHERENCERIENCETRIEVEREICHEHCHCHEIK
[इति श्रीस्थूलभद्रकथानकम् ]
१ -उ. थ.। भद्रो-मु.॥ २ [
] एतदन्तगतः पाठो नास्ति-मु. विना ॥
ww.jainelibrary.org