SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ॥ ७४१॥ विलीयन्ते धातुमयाः पार्वे वहेरिव स्त्रियाः। स तु वज्रमयो मन्ये स्थूलभद्रमहामुनिः ॥ १८० ॥ स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुद्रैव मुखे वर्णयितुं परम् ॥ १८१ ॥ रथिकोऽप्यथ पप्रच्छ य एवं वर्ण्यते त्वया। को नाम स्थूलभद्रोऽयं महासत्त्वशिरोमणिः ॥ १८२ ॥ साऽप्यूचे शकटालस्य नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् ॥ १८३ ॥ तच्छ्रुत्वा सोऽपि संभ्रान्त इत्युवाच कृताञ्जलिः। एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ॥ १८४ ।। संविग्नं साऽथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्धिर्मोहनिद्रामपास्य सः ॥ १८५ ॥ प्रतिबुद्धं च तं बुद्ध्वा साऽऽख्यद् निजमभिग्रहम् । तत् श्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् ॥ १८६ ॥ बोधितोऽहं त्वया भद्रे ! स्थूलभद्रगुणोक्तिभिः। यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् ।। १८७ ॥ कल्याणमस्तु ते भद्रे! पालय स्वभभिग्रहम् । उक्त्वैवं सद्गुरोः पाद्यं गत्वा दीक्षां स आददे ॥ १८८॥ भगवान् स्थूलभद्रोऽपि तीव्र व्रतमपालयत् । द्वादशाब्दप्रमाणश्च दुष्कालः समभूत्तदा ॥ १८९ ॥ तीरं नीरनिधेर्गत्वा साधुसंघोऽखिलोऽप्यथ । गमयामास दुष्कालं करालं कालरात्रिवत् ॥१९॥ अगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ॥ १९१ ॥ संघोऽथ पाटलीपुत्रे समवायं विनिर्ममे । यदङ्गाध्ययनोद्देशाद्यासीद् यस्य तदाददे ॥ १९२ ॥ १ -ड. थ.॥ भद्रो-मु.॥ २ इत 'आरभ्य २४० श्लोकपर्यन्तं सर्वेऽपि श्लोकाः प्रायोऽक्षरशः परिशिष्टपर्वणि वर्तन्ते ९।५६-१११॥ HEHCHHEHICHCHHETCHCHEHEHCHCHCHEHRISHCHEHEHEHHHHHHI mariawamania ॥ ७४१ ॥ Jain Education Inten For Private & Personal Use Only w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy