________________
॥ ७३९॥
TECHEHCHEHREHCHCHCHCHCHEHCHECHECEIGHEHRISHCHECREEK
तत्र गत्वा महीपालाद् रत्नकम्बलमाप्य च । स मुनिर्वलितो वर्त्मन्यासंस्तत्र च दस्यवः ॥ १५२ ॥ आयाति लक्षमित्याख्यद् दस्यूनां शकुनस्ततः। किमायातीत्यपृच्छच्च दस्युराड् द्रुस्थितं नरम् ॥ १५३ ॥ आगच्छन् भिक्षुरेकोऽस्ति न कश्चित् तादृशोऽपरः । इत्यशंसद् द्रुमारूढचौरसेनापतेः स तु ॥ १५४ ॥ साधुस्तनाथ संप्राप्तस्तैर्विधृत्य निरूपितः । कमप्यर्थमपश्यद्भिर्मुमुचे च मलिम्लुचैः ॥ १५५ ॥ एतल्लक्षं प्रयातीति व्याहरच्छकुनः पुनः । मुनि चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ? ॥ १५६ ॥ वेश्याकृतेऽस्य वंशस्यान्तः क्षिप्तो रत्नकम्बलः । अस्तीत्युक्ते मुनिश्चौरराजेन मुमुचे च सः ॥ १५७ ॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिक्षेप सा गृहस्रोतःपङ्के निःशङ्कमेव तम् ॥ १५८ ॥ अजल्पद् मुनिरप्येवं न्यक्षेप्यशुचिकर्दमे । महामूल्यो ह्यसौ रत्नकम्बलः कम्बुकण्ठि ! किम् ? ॥१५९ ॥ अथ कोशाप्युवाचैवं कम्बलं मूढ ! शोचसि । गुणरत्नमयं श्वघ्र पतन्तं स्त्रं न शोचसि ॥ १६० ॥ तत् श्रुत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितोऽस्मि त्वया साधु संसारात् साधु रक्षितः ॥ १६१॥ अघान्यतीचारभवान्युन्मूलयितुमात्मनः । यास्यामि गुरुपादान्ते धर्मलाभस्तवानघे ॥ १६२॥ कोशापि तमुवाचैवं मिथ्या मे दुष्कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदितः॥१६३ ॥ आशातनेयं युष्माकं बोधहेतोमया कृता । क्षन्तव्या सा गुरुवचः श्रयध्वं यात सत्वरम् ॥ १६४ ॥ इच्छामीति भणित्वा च गुर्वन्तिकमपेत्य सः। गृहीत्वालोचनां तीक्ष्णमाचचार पुनस्तपः ॥१६५॥ १ मुमुचेऽथ सः-मु. शां.॥
TECHCHEMICHCHIDISHEIKHEREHENCHEHRISHCHEHEREHENGHBHBHBHBHI
॥ ७३९॥
Jain Education Inter
For Private & Personal Use Only
w.jaihelibrary.org