________________
स्वोपक्षवृत्ति
तृतीयः प्रकाशः श्लोकः १३२ । ॥ ७३८॥
विभूषितं पोगशास्त्रम्
॥ ७३८॥
स्थूलभद्रचरित्रम्
BHBHBHIBHBHERSHISHEHBHIBHIBHBHOICEKHAMICHHHHHOICE
कोशावेश्यागृहे नित्यं षड्रसाहारभोजनः। भगवन् ! समवस्थास्ये चतुर्मासीमिमामहम् ॥ १३८ ॥ स्थूलभद्रेण मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ।। १३९ ॥ वत्स! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । स्थूलभद्रः क्षमः कर्तुमद्रिराज इव स्थिरः ॥ १४० ॥ न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः?। तदवश्यं करिष्यामीत्युवाच स मुनिर्गुरुम् ॥ १४१ ॥ गुरुरूचेऽमुना भावी भ्रंशः पाक्तपसोऽपि ते। आरोपितोऽतिभारो हि गात्रभङ्गाय जायते ॥ १४२ ॥ गुरोर्वचोऽवमन्याथ वीरंमन्यो मुनिः स च । उन्मीनकेतनं माप कोशायास्तु निकेतनम् ॥ १४३ ॥ स्थूलभद्रस्पर्धयेहायाति मन्ये तपस्व्यसौ । भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ १४४ ॥ वसत्यै याचितां तेन मुनिना चित्रशालिकाम् । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ १४५ ॥ तं भुक्तषड्रसाहारं मध्याह्नेऽथ परीक्षितुम् । कोशापि तत्र लावण्यकोशभूता समाययौ ॥ १४६ ।। चुक्षोभ स मुनिर्मक्षु पङ्कजाक्षीमुदीक्ष्य ताम् । स्त्री तादृग् भोजनं तादृग् विकाराय न किं भवेत् १ ॥ १४७ ॥ स्मराा याचमानं तं कोशाप्येवमवोचत। वयं हि भगवन् ! वेश्या वश्याः स्मो धनदानतः ॥ १४८ ॥ न मुनियोजहाराथ प्रसीद मृगलोचने!। अस्मासु भवति द्रव्यं किं तैलं वालुकास्विव? ॥ १४९ ॥ नेपालभूपोऽपूर्वस्मै साधवे रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ १५० ॥ ततश्चचाल नेपालं प्रत्यकालेऽपि बालवत् । पङ्किलायामिलायां स निजव्रत इव स्खलन् ॥ १५१ ॥ १ स तु-मु. खं. संपू. ॥ २ वर्षाकालेऽपि-खं.॥
CHCHCHEHECHEHEHEHEICHCHEHEHEHONEICHEICHEHEHCHEHENREL
Jain Education Intem
For Private & Personal Use Only
Aw.jainelibrary.org