SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ॥ ७३७॥ यद् यत् क्षोभाय विदधे तया तत्र महामुनी । तत् तद् मुधाऽभवद् यद्वद् वजे नखविलेखनम् ॥ १२४ ॥ प्रतिवासरमप्येवं तत्क्षोभाय चकार सा । जगाम स तु न क्षोभं मनागपि महामनाः ॥ १२५॥ तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः। अदीप्यत ध्यानवहिर्मेघवहिरिवाम्भसा ॥ १२६ ॥ त्वयि पूर्वमियाज्ञानाद् रन्तुकामां धिगीश ! माम् । आत्मानमिति निन्दन्ती साऽपतत् तस्य पादयोः ॥ १२७ ।। मुनेस्तस्येन्द्रियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं साऽग्रहीञ्चैवमभिग्रहम् ॥ १२८ ॥ तुष्टः कदापि कस्मैचिद् ददाति यदि मां नृपः। विना पुमांसमेकं तमन्यत्र नियमो मम ॥ १२९ ॥ गते तु वर्षासमये ते त्रयोऽपि हि साधवः । नियूढाभिग्रहा एयुर्गुरुपादान्तिकं क्रमात् ॥ १३० ॥ आयान् सिंहगुहासाधुरहो! दुष्करकारक! तव स्वागतमित्यूचे किश्चिदुत्थाय मूरिणा ॥ १३१ ॥ मूरिणा भाषितौ तद्वदायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि स्वामिसक्रिया ॥ १३२ ॥ अथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत् । दुष्करदुष्करकार ! महात्मन् ! स्वागतं तव ॥ १३३ ॥ सासूयाः साधवस्तेऽथाचिन्तयन्नित्यहो! गुरोः । इदमामन्त्रणं मन्त्रिपुत्रताहेतुर्क ननु ॥ १३४ ॥ यद्यसौ षड्रसाहारात् कृतदुष्करदुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥ १३५॥ एवं मनसि संस्थाप्य सामर्षास्ते महर्षयः । कुर्वाणाः संयम मासामष्टावगमयन् क्रमात् ॥ १३६ ॥ उत्तमर्ण इव प्राप्ते काले हृष्टः पुरो गुरोः। साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ॥ १३७॥ १-ग.ड. थ.। सा गृहीत्वैव०-ब.॥ २ ०कारकः-सं. खं. संपू. ॥ ३ कारं-खं.। कारक-हे ॥ ४ ततः-शां. ॥ दिल ५०हारः कृत-मु.॥ BHATTERISHTERSHEETERMIRISHCHESTRICHERSHISMOKI BHECHEHENGHBHISHEHDHDHDHDHCHCHCHCHCHEVCHCHHHHHHEN ॥७३७॥ JainEducation Intense For Private & Personal Use Only w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy