________________
स्वोपश
तृतीयः प्रकाशः श्लोकः १३१ ॥७३६॥
विभूषितं योगशास्त्रम्
॥७३६॥
स्थूलभद्र
चरित्रम
MEHEYENCIENCHEHDHDHDHEHCHCHEHENSIDHISHEDCHCHCHHere
हग्विषाहिबिलद्वारे चतुर्मासीमुपोषितः । स्थास्यामि कायोत्सर्गेण द्वितीयोऽभ्यग्रहीदिति ॥ ११० ॥ उत्सर्गी कूपमण्डूकासने मासचतुष्टयम् । स्थास्याम्युपोषित इति तृतीयः प्रत्यपद्यत ॥ १११॥ योग्यान् मत्वा गुरुः साधून यावत् तानन्यमन्यत । स्थूलभद्रः पुरोभूय नत्वैवं तावदब्रवीत् ॥ ११२ ॥ कोशाभिधाया वेश्याया गृहे या चित्रशालिका । विचित्रकामशास्त्रोक्तकरणालेख्यशालिनी ॥ ११३॥ तत्राकृततपःकर्मविशेषः षड्रसाशनः। स्थास्यामि चतुरो मासानिति मेऽभिग्रहः प्रभो!॥११॥ ज्ञात्वोपयोगाद् योग्यं तं गुरुस्तत्रान्वमन्यत । साधवश्च ययुः सर्वे स्वं स्वं स्थानं प्रतिश्रुतम् ॥ ११५ ।। स्थूलभद्रोऽपि संपाप कोशावेश्यानिवेशनम् । अभ्युत्तस्थौ ततः कोशाऽप्याहिताञ्जलिरग्रतः ॥ ११६ ॥ सुकुमारः प्रकृत्यासौ रम्भास्तम्भ इवोरुणा । व्रतभारेण विधुरोऽत्रागादिति विचिन्त्य सा ॥ ११७॥ उवाच स्वागतं स्वामिन् ! समादिश करोमि किम् ? । वपुर्धनं परिजनः सर्वमेतत् तवैव हि ॥ ११८ ॥ युग्मम् ॥ चतुर्मासी वसत्य मे चित्रशालेयमर्प्यताम् । इत्यूचे स्थूलभद्रोऽपि सा तूचे गृह्यतामिति ॥ ११९ ॥ तया च तस्यां प्रगुणीकृतायां भगवानपि । कामस्थानेऽविशद् धर्म इव स्वबलवत्तया ॥ १२० ॥ अथ सा षड्रसाहारभोजनानन्तरं मुनेः । विशेषकृतशृङ्गारा क्षोभाय समुपाययौ ॥ १२१ ॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवाप्सराः। चतुरं रचयामास भाव-हावादिकं मुहुः ॥ १२२ ॥ करणानुभवक्रीडोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि स्मारयामास साऽसकृत् ॥ १२३ ॥ १ निकेतनम्-मु.॥ २ ०र्मासीवसत्यै-सं. खं.॥ ३ साऽनूचे-शां. खं.॥ साप्यूचे-हे.॥ ४ हावभावादिक-मु.॥
HEREHENRELEHEIGHEHERCHCHEIGHIGHCHHIGHEHICHCHHEHCHEHEHER
Jain Education Inte2
For Private & Personal Use Only
क
w.jainelibrary.org