SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ।७३३॥ HEHCHCHCHEHEHECHCHCHCHCHEHCHCHCHCHEICHEHREEHEIRE शयनं भोजनं स्नानं यच्चान्यत् सुखसाधनम् । कालेऽपि नानुभूयन्ते रोरैरिव नियोगिभिः ॥ ७० ॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्मेऽम्भसामिव ॥ ७१ ॥ त्यक्त्वा सर्वमपि स्वार्थ राज्ञोऽथं कुर्वतामपि । उपद्रवन्ति पिशुना उद्बद्धानामिव द्विकाः ॥ ७२ ॥ यथा स्वदेहद्रविणव्ययेनापि प्रयत्यते । राजार्थे तद्वदात्मार्थे यत्यते किं न धीमता ? ॥ ७३ ।। विमृश्यैवं व्यधात् केशोत्पाटनं पञ्चमुष्टि सः। रत्नकम्बलदशामी रजोहरणमप्यथ ॥ ७४ ॥ ततश्च स महासत्त्वो गत्वा सदसि पार्थिवम् । आलोचितमिदं धर्मलाभः स्तादित्यवोचत ।। ७५ ॥ ततः स राजसदनाद् गुहाया इव केसरी। निःससार महासारः संसारकरिरोषणः ॥ ७६ ॥ किमेष कपटं कृत्वा यायाद् वेश्यागृहं पुनः । इत्यप्रत्ययतः क्षमापो गवाक्षेण निरैक्षत ॥ ७७ ॥ प्रदेशे शबदुर्गन्धेऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्रं नरेन्द्रोऽधूनयच्छिरः ॥ ७८ ॥ भगवान् बीतरागोऽसावस्मिन् धिग् मे कुचिन्तितम् । इत्यात्मानं निनिन्दोचैर्नन्दस्तमभिनन्दयन् ॥ ७९ ॥ स्थूलभद्रोऽपि गत्वा श्रीसंभूतविजयान्तिके । दीक्षां सामायिकोच्चारपूर्विकां प्रत्यपद्यत ॥ ८ ॥ गृहीत्वा श्रीयकं दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारसहिते न्यधात् ।। ८१ ॥ चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटालः प्रकृष्टनयपाटवात् ॥ ८२ ॥ १ भूयते-खं.॥ २ पूर्णे कुम्मे-च. हे.॥ ३ मुष्टिना-खं.॥ ४०संभूति०-मु.॥ EHCHCHEHICHCHCHERSHISHSITERTISHSHEHEHEHEHEHEHCHEHCHER ॥ ७३३॥ Jain Education in nal For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy