________________
॥७३१॥
EHICHCHEHENRICHEHEROTECHERRCHCHCHCHCHCHCHCHEHCHCHCHE
विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । द्रव्यं प्रातः पुनर्गृहातीत्यूचे सचिवो नृपम् ॥ ४२ ॥ साधु ज्ञातमिदं छोत्यालपन मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागाद् महीपतिः ॥ ४३ ॥ अमर्षणो वररुचिः प्रतिकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृच्छच्चेटिकादिकम् ॥४४॥ तस्याथ कथयामास काचित् सचिवचेव्यदः। भूपतिः श्रीयकोद्वाहे भोक्ष्यते मन्त्रिवश्मनि ॥४५॥ सज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्रप्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥४६॥ समासाद्य छलबस्तच्छलं वररुचिस्ततः। चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥४७॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ।। ४८॥ स्थाने स्थाने च पठतो डिम्भानेवं दिने दिने । जनश्रुत्या तदोषीदिति चाचिन्तयद् नृपः॥४९॥ बालका यच्च भाषन्ते भाषन्ते यच्च योषितः । औत्पातिकी चे भाषा या सा भवत्यन्यथा न हि॥५०॥ तस्पत्ययार्थ राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ॥ ५१॥ ततश्च सेवावसरे मन्त्रिणः समुपेयुषः। प्रणाम कुर्वतो राजा कोपात् तस्थौ पराङ्मुखः ॥५२॥ तद्भावज्ञोऽथ वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञोऽस्मि ज्ञापितः केनाप्यभक्तो विद्विषन्निव ॥ ५३ ॥ असावकस्मादस्माकं कुलक्षय उपस्थितः । रक्ष्यते वत्स ! कुरुषे यद्यादेशमिमं मम ॥५४॥ नमयामि यदा राजे शिरग्छिन्यास्तदासिना । अभक्तः स्वामिनो वध्यः पिताऽपीति वदेस्ततः ॥ ५५ ॥ १ ०कादिकाम्-संपू. विना ॥ २ च या भाषा-मु.॥ ३ ०स्तवासिना-खं. ॥
BISHCHCHEHREECHCHCHCHEHCHHCHCHOTHDCHCHCHCHONDHEHONE
10
Jain Education Intern
For Private & Personal Use Only
Surjainelibrary.org