________________
स्वोपक्षवृत्तिविभूषितं
दतीयः प्रकाश लोकः १३१ ॥७३०॥
योगशास्त्रम्
॥ ७३०॥
स्थूलभद्र चरित्रम्
BHETBHETECHEETENCIENCHCHCHRISHCHCHEHEACHEREIGICROICE
प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रामदंह्निणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतस्ततः ॥ २९ ॥ स एवं विदधे नित्यं जनस्तेन विसिष्मिये । तच्च श्रुत्वा जनश्रुत्या राजाऽशंसच्च मन्त्रिणे ॥ ३० ॥ इदं यद्यस्ति सत्यं तत् प्रात:क्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३१ ॥ दत्त्वा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलीनोऽस्थात् पक्षीवानुपलक्षितः ॥ ३२ ॥ तदा वररुचिर्गत्वा छन्नं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्थिं न्यस्य ययौ गृहे ॥ ३३ ॥ तजीवितमिवादाय दीनारग्रन्थिमेष तु । चरः समर्पयामास प्रच्छन्नं वरमन्त्रिणे ॥ ३४ ॥ अथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाद् वररुचिस्तदा ॥ ३५ ॥ द्रष्टुकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गा मूढो वररुचिस्ततः ॥ ३६ ॥ स्तुत्यन्तेऽचालयद् यन्त्रं पैदा वररुचिः परम् । दीनारग्रन्थिरुत्पत्य नापतत् पाणिकोटरे ॥ ३७॥ द्रव्यं सोऽन्वेषयामास पाणिना तञ्जले ततः । तस्थापश्यंस्तूष्णीको धृतो घृष्टो हि मौनभाक् ॥ ३८ ॥ इत्यूचे च महामात्यः किं ते दत्ते न जाहची। न्यासीकृतमपि द्रव्यमन्वेषयसि यद् मुहुः ॥ ३९ ॥ उपलक्ष्य गृहाणेदं निजद्रव्यमिति ग्रुपन् । सोऽर्पयामास दीनारप्रन्थि वररुचेः करे ॥ ४० ॥ दीनारग्रन्धिना तेनोत्सर्पिद्वन्थिनेव सः। दशामासादयामास मरणादपि दुस्सहाम ॥४१॥
१ ०माक्रम-मु.॥ २ एवं च विदधे-च.॥ ३ बदा-सं. मु.॥ ४ पदा-मु.॥ ५ ववश्यं तूष्णीको-ध..॥ ६ दुस्सहम्-सं. खं. संपू.॥
MAHEHEHCHEHEMEHCHEHEHEHCHCHENEHAHEHEYEHEHEHEYEHEYEHR
Jain Education Inter
For Private & Personal use only
How.jainelibrary.org