________________
॥ ७२९॥
HOTELETEHEHEHEHEREHEHEREICHEENCHCHSHEHCHCHCHCHCHCHEHER
राज्ञः पुरस्तात् पठतः काव्यं वररुस्ततः । अहो ! सुभाषितमिति वर्णयामास मन्त्रिराट् ॥ १६ ॥ दीनारशतमष्टाग्रं ततोऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचाऽपि जीव्यते धनुकूलया ॥ १७ ॥ दीनाराष्टोत्तरशते दीयमाने दिने दिने। किमेतद् दीयत इति भूपं मन्त्री व्यजिज्ञपत् ॥ १८ ॥ अथोचे नृपतिर्मन्त्रिन् दद्मोऽस्मै त्वत्मशंसया। वयं यदि स्वयं दयो दयः किं न पुरा ततः ॥१९॥ मन्त्र्यप्यूचे मया देव ! प्रशंसा नास्य निर्ममे । काव्यानि परकीयानि प्रेशशंस तदा त्वहम् ॥२०॥ पुरो नः परकाव्यानि स्वकीकृत्य पठत्ययम् । किमेतत् सत्यभावेनेत्यभाषत नृपस्ततः ॥ २१ ॥ एतत्पठितकाव्यानि पठन्ती|लिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवोऽपि च ॥२२॥ यक्षा यक्षदत्ता भूता भूतदत्ता तथैणिका । वेणा रेणेति सप्तासन् प्राज्ञाः पुत्र्योऽस्य मन्त्रिणः ॥ २३ ॥ गृह्णाति ज्यायसी तासां सकृदुक्तं तथेतराः । द्वित्र्यादिवारक्रमतो गृह्णन्ति स्म यथाक्रमम् ॥ २४ ॥ राज्ञः समीपं सचिवो द्वितीयेऽसि निनाय ताः। तिरस्करिण्यन्तरिताः समुपावेशयच्च सः ॥२५॥ अष्टोत्तरशतं श्लोकान् स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्ता अप्यनुज्येष्ठमचिरे ॥ २६ ॥ ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहक्षमाः ॥ २७॥ ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले न्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक् ॥२८॥ १ प्रशंसिर्ष-खं. ॥ २ 'तदा वहम्' इत्यपि सं. मध्ये पठयेत॥ ३ पठन्ति बालिका-मु.॥ ४ जग्राह-मु.॥
SCHEHENSHOTSHEICHEHCHCHEHCHCHEHDHDHERAICHEICHCHCHCHHI
॥ ७२९॥
Jain Education Interna
For Private & Personal use only
jainelibrary.org