SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् तृतीयः प्रकाशः श्लोकः १३१ ॥ ७२८॥ ॥७२८॥ विसंकटः श्रियां वासोऽसंकटः शकटो धियाम् । शकटाल इति तस्य बभूवामात्यपुङ्गवः ॥ ३॥ तस्याभूज्ज्येष्ठतनयो विनयादिगुणास्पदम् । अस्थूलधीः स्थूलभद्रो भद्राकारनिशाकरः ॥४॥ भक्तिनिष्ठः कनिष्ठोऽस्य श्रीयकोजनि नन्दनः । नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः ॥ ५ ॥ बभूव तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगचेताश्चेतोभूजीवनौषधिः ॥ ६॥ भुञ्जानो विविधान् भोगान् स्थूलभद्रो दिवानिशम् । उवासावसथे तस्या द्वादशाब्दानि तन्मनाः ॥ ७ ॥ श्रीयकस्त्वङ्गरक्षोऽभूद् भूरिविश्रम्भभाजनम् । द्वितीयमिव हृदयं नन्दस्य पृथिवीपतेः ॥ ८॥ तत्र चासीद् वररुचिर्नाम द्विजवराग्रणीः । कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ ९॥ स्वयंकृतैर्नवनवैरष्टोत्तरशतेन सः । वृत्तैः प्रवृत्तोऽनुदिनं नृपावलगने सुधीः ॥ १० ॥ मिथ्यागिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टोऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः ॥ ११ ॥ ज्ञात्वा वररुचिस्तत्र दानामापणकारणम् । आराधयितुमारेभे गृहिणीं तस्य मन्त्रिणः ॥ १२ ॥ संतुष्टया तयाऽन्येद्युः कार्य पृष्टोऽब्रवीदिदम् । राज्ञः पुरस्ताद् मत्काव्यं तव भर्ता प्रशंसतु ॥ १३ ॥ तया तदुपरोधेन तद्विज्ञप्तोऽवदत् पतिः। मिथ्यादृष्टेरमुष्याहं प्रशंसामि कथं वचः ॥ १४ ॥ तयोक्तः साग्रहं मन्त्री तत् तथा प्रत्यपद्यत । अन्ध-स्त्री-बाल-मूर्खाणामाग्रहो बलवान् खलु ॥ १५ ॥ स्थूलभद्रचरित्रम् HEICHETECHEHEREICHEREHEHEREINHEICHRTEHRIRICISION CHCHEHEREEMERGICHEICIRRICHERCHCHRIDIHEICHCHEHEREICHE TO Jain Education Intem For Private & Personal Use Only Swew.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy