SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ॥७२७॥ सन्चा HEENCHHEHEHREHEREHEHEROREHECHEHEREHRSHIGHCHEICHE तत्र देवस्मृतिः--"नमो वीयरायाणं सवण्णूणं तेलोकपूइआणं जहटिअवत्थुवाइणं" [पञ्चसूत्रे ] इत्यादि। गुरुस्मृतिश्च--धन्यास्ते ग्राम-नगर-जनपदादयो येषु मदीया धर्माचार्या विहरन्ति । __निद्रामल्पामिति । निद्रामिति विशेष्यम् , अल्पामिति विशेषणम् । विशेषणस्य चात्र विधिः, "सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः" [ ] इति न्यायात् । निद्रामिति च विशेष्यमिति न तत्र विधिः, दर्शनावरणीयकर्मोदयेन निद्रायाः स्वतः सिद्धत्वात् , 'अप्राप्ते हि शास्त्रमर्थवत्' [ ] इत्युक्तप्रायम् । अब्रह्म मैथुनम् , तद् वर्जयति अब्रह्मवर्जकः, प्रायेणेति बाहुल्येन, गृहस्थत्वादस्य ॥ १३० ॥ पुनश्च निद्राच्छेदे योषिदङ्गसतत्त्वं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां तन्निवृत्ति परामृशन् ॥ १३१ ॥ परिणतायां रात्रौ निद्राया छेदे सति योषिदङ्गानां स्त्रीशरीराणां सतत्त्वं स्वरूपं परितश्चिन्तयेत् । किं कुर्वन् ? के स्थूलभद्रादीनां साधूनां तन्निवृत्ति योषिदङ्गनिवृत्ति परामृशन् अनुस्मरन् । स्थूलभद्रचरितं संप्रदायगम्यम् । स चायम् अस्ति सौधनभाजालधूपधूमैर्निरन्तरैः। जितगङ्गा-जासङ्ग पाटलीपुत्रपत्तनम् ॥ १॥ तंत्र त्रिखण्डपृथिवीपतिः पतिरिय श्रियः । समुत्खातद्विषत्कन्दो नन्दो नामाभवद् नृपः ॥ २॥ १ दृश्यतां पृ० ५८० पं.५॥ २ अर्कजा यमुना इत्यर्थः॥ ३ इत आरभ्य १८९ श्लोकपर्यन्तं सर्वेऽपि श्लोकाः प्रायोऽक्षरशः परिशिष्टपर्वणि वर्तन्ते ८।३-१९३॥ ॥७२७॥ Jain Education Internal For Private & Personal Use Only SAjainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy