SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष तृतीयः प्रकाशः श्लोकः वृत्ति विभूषितं योगशास्त्रम् ॥७१८॥ ।।७१८॥ MEHEHEHDHDHENHEICHCHHETRIEVEMESTEHCHETRIEVENTEING पेक्षयाऽवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव लेपकारिणाप्युपवासादेर्न भङ्ग इति भावः। एवमलेपकृताद् वाऽपिच्छिलात् , अच्छाद् वा निर्मलादुष्णोदकादेः, बहुलाद् वा गड्डलात् तिल-तन्दुलधावनादेः, ससिक्थाद् वा भक्तपुलाकोपेतादवनाषणादेः, असिक्थाद् वा सिक्थवर्जितात् पानकाहारात् ।। अथ चरमम् । चरमोऽन्तिमो भागः। स च दिवसस्य भवस्य चेति द्विधा । तद्विषयं प्रत्याख्यानमपि चरमम् । इह च भवचरमं यावञ्जीवम् । तत्र द्विविधेऽपि चत्वार आकारा भवन्ति, यत्सूत्रम् दिवसचरिमं भवचरिमं वा पञ्चक्खाइ चउन्विहं पि आहारं असणं पाणं खाइमं साइमं अनत्थणाभोगेणं सहसागारेणं महत्तरागारेण सव्वसमाहिवत्तियागारेणं वोसिरह। ननु दिवसचरमप्रत्याख्यानं निष्फलम् , एकाशनादिमत्याख्यानेनैव गतार्थत्वात् । नैवम् , एकाशनादिकं अष्टाद्याकारमेतच्च चतुराकारम् , अत आकाराणां संक्षेपकरणात् सफलमेव । अत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधेन यावजीवं प्रत्याख्यातत्वात् । गृहस्थापेक्षया पुनरिदमादित्योद्गमान्तम् , दिवसस्याहोरात्रप-यतयापि दर्शनात् । तत्र येषां रात्रिभोजननियमोऽस्ति तेषामपीदं सार्थकम् , अनुवादकत्वेन स्मारकत्वात् । भवचरमं तु द्वथाकारमपि भवति । यदा जानाति महत्तर-सर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनम् तदाऽनाभोग-सहसाकाराकारौ भवतः, अङ्गल्यादेरनाभोगेन सहसाकारेण वा मुखे प्रक्षेपसंभवात् । अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापरिहार्यत्वात् ।। १ ०पिच्छलात्-मु.। प्रवचनसारोद्धारवृत्तौ च पृ० १३०॥ २ बहलात्-पञ्चाशकवृत्ती, प्रवचनसारोद्धारवृत्तौ पृ० १३०॥ ३ वधाव-सं.॥ ४०चरिमं वा भव०-खं.॥ ५ चरिम-गु.संपू. शां.। चरिम-सं.॥ ६ त्रिविध मास्ति सः॥ WeveralwwewaleHTEHSICHCHERENCYCHCHCHCHEHCHCHCHCHER प्रत्याख्यानस्वरूपम् Jain Education Inter For Private & Personal Use Only S w jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy