________________
स्वोपक्ष
वृत्ति
विभूषितं पोगशास्त्रम्
॥ ७१४॥
" छकायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं ।
तृतीयः आहारे नीहारे दुगुछिए पिंडगहणे य ॥१॥" [ओघनियुक्तौ गा० ४४१]
प्रकाशः ___ ततश्च भुञ्जानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा स्वाध्यायादिव्याघातो / श्लोकः १२९
॥ ७१४॥ मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि न भङ्गः। गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति तदादिः सागारिकः।
आउंटणपसारणेणं, आउंटणं आकुञ्चनं जक्चादेः संकोचनम् , प्रसारणं च तस्यैवाकुञ्चितस्य ऋजूकरणम् , आकुञ्चने में प्रसारणे चासहिष्णुतया क्रियमाणे किश्चिदासनं चलति, ततोऽन्यत्र प्रत्याख्यानम् ।
प्रत्याख्यान। गुरुअब्भुट्ठाणेणं, गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघुणकस्य वाऽभ्युत्थानं तं प्रतीत्यासनत्यजनं गुर्वभ्युत्थानम्, ततोऽ
न्यत्र । अभ्युत्थानं चावश्यकर्त्तव्यत्वाद् भुञ्जानेनापि कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः । oil पारिट्ठावणिआगारेणं, परिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमन्नम् , तदेवाकारः पारिष्ठापनिकाकारः,
ततोऽन्यत्र । तत्र हि त्यज्यमाने बहुदोषसंभवात् , आश्रीयमाणे चागमिकन्यायेन गुणसंभवार्च, गुर्वाज्ञया पुनर्भुञ्जानस्य न भङ्गः। बोसिरइ इति अनेकासनमशनाद्याहारं च परिहरति ।
१ षटकायदयावानपि संयतो दुर्लभां करोति बोधिम् । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥ २ दुगुंछियपिंड०-मु.॥ ३ तदादिसागारिकः-सं. शां.। स सागारिका-मु.॥ ४ प्राघुकस्य-सं.। प्राघुर्णकस्य-मु.॥ ५ तं-नास्ति मु. खं. ॥ ६ ०च्च तस्य गुर्वा०-शां. संपू.॥
स्वरूपम्
Jain Education in
For Private & Personal Use Only
22w.jainelibrary.org