SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ।। ७१२॥ प्रत्याख्यान ___पुरुषः प्रमाणमस्याः पौरुषी छाया, तद्युक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति पौरुषीप्रत्याख्यानं करोती तृतीयः त्यर्थः । कथम् ? चतुर्विधर्मशन-खाद्य-स्वाद्य-पानलक्षणं 'व्युत्सृजति' इत्युत्तरेण योगः। अत्र च षडाकाराः। प्रथमौ द्वौ प्रकाशः पूर्ववत् । अन्यत्र प्रच्छन्नकालात् , दिग्मोहात् , साधुवचनात् , सर्वसमाधिप्रत्ययाकाराच्च। प्रच्छन्नता च कालस्य यदा मेघेन रजसा श्लोकः १२९ गिरिणा वान्तरितत्वात् सरो न दृश्यते, तत्र पौरुषी पूर्णा ज्ञात्वा भुञ्जानस्यापूर्णायामपि तस्यां न भङ्गः; ज्ञात्वा त्वर्धभुक्तेनापि ॥ ७१२ ।। तथैव स्थातव्यं यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम् , न पूर्णेति ज्ञाते तु भुञ्जानस्य भङ्ग एव । दिग्मोहस्तु 25 यदा पूर्वामपि पश्चिमेति जानाति तदाऽपूर्णायामपि पौरुष्यां मोहाद् भुञ्जानस्य न भङ्गः, मोहविगमे तु पूर्ववदर्धभुक्तेनापि | स्थातव्यम् ; निरपेक्षतया भुञ्जानस्य भङ्ग एवेति। साधुवचनं 'उद्घाटा पौरुषी' इत्यादिकं विभ्रमकारणम् , तत् श्रुत्वा । भुञ्जानस्य न भङ्गः, भुञ्जानेन तु ज्ञाते अन्येन वा कथिते पूर्ववत् तथैव स्थातव्यम् । तथा कृतपौरुषीप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया संजातयोरात-रौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्ययः कारणं स एवाकारः | प्रत्याख्यानापवादः सर्वसमाधिमत्ययाकारः, समाधिनिमित्तमौषधपथ्यादिमवृत्तावपूर्णायामपि पौरुष्यां न भङ्ग इत्यर्थः ।। वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते त्यातुरस्य समाधौ मरणे वोत्पन्ने ज्ञाते सति तथैव भोजनस्य त्यागः॥ | सार्धपौरुषीप्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतम् ।। १ ०मशनपानखाद्यस्वाद्यलक्षण-मु.॥ २ च-नास्ति मु.॥ ३ चान्तरितम्-शां. खं.। चत्तारित-स.॥ ४ पौरुष्यां भुङ्क्ते तदा न भङ्ग-मु.॥ ५ शाते-नास्ति सं.॥ स्वरूपम् MCHRIENCHCHENCHCHEHINDISISHTRICKEKSISTENKEWISHEHEYENER Jain Education Inte ! For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy