SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ __व्याख्या-उद्गते सूरे सूर्योद्मादारभ्येत्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्याख्याति, सर्वे धातवः करोत्यर्थेन व्याप्ताः' इति न्यायाद् नमस्कारसहितं प्रत्याख्यानं करोति । इदं गुरोरनुवादभङ्गया वचनम् । शिष्यस्तु 'प्रत्याख्यामि' इत्येतदाह । एवं 'व्युत्सृजति' इत्यत्रापि वाच्यम् । कथम् ? चतुर्विधमिति, न पुनरेकविधादिकम् । आहारमभ्यवहार्यम् , 'व्युत्सृजति' इत्युत्तरेण योगः । इदं चतुर्विधाहारस्यैव भवतीति संप्रदायः, रात्रिभोजनव्रततीरणप्रायत्यादस्य । अशनमित्याद्याहारचातुर्विध्यकीर्तनम् । अशनादय आहाराः पूर्वं व्याख्याताः । | अत्र नियमभङ्गभयादाकारावाह–अन्नत्थणाभोगेणं सहसागारेणं, अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात् सहसाकाराच; एतौ वर्जयित्वेत्यर्थः। तत्रानाभोगोऽत्यन्तविस्मृतिः। सहसाकारोऽतिप्रवृत्तयोगानिवर्तनम् । व्युत्सृजति परिहरति । | अथ पौरुषीप्रत्याख्यानम् पोरिसिं पच्चक्खाइ उग्गए सूरे चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नेणं कालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरह । १ इत आरभ्य तुला-पञ्चाशकवृत्तिः पृ० ९१-९५। पञ्चवस्तुकवृत्तिः पृ० ८३-८४। प्रवचनसारोद्धारवृत्तिः पृ० १२४-१३१ ।। धर्मसंग्रहवृत्तिः पृ० १८४-२८९॥ २ नमस्कारेण सहितं-मु.॥ ३ "अतिप्रवृत्तियोगादनिवर्तनम् "-आवश्यकहारिभद्री पृ० ८५०। "अतिप्रवृत्तयोगानिवर्तनम्”-पञ्चवस्तुकवृत्तिः पृ० ८३; पञ्चाशकवृत्तिः पृ० ९१। “अतिप्रवृत्तियोगानिवर्तनम्"-प्रवचनसारोद्धारवृत्तिः पृ० १२५॥ Jain Education Intel For Private & Personal Use Only Klwww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy