________________
॥ ७०७॥
कायोत्सर्गसूत्रार्थः प्राग् व्याख्यात एव ।
अथ प्रत्याख्यानम-पति प्रवृत्तिप्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम् । तच्च द्वेधा-मूलगुणरूपमुत्तरगणरूपं च। मूलगुणा यतीनां महाव्रतानि, श्रावकाणामणुव्रतानि । उत्तरगुणास्तु यतीनां पिण्डविशुद्धथादयः, श्रावकाणां तु गुणव्रत-शिक्षाव्रतानि। मूलगुणानां तु प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात् , उत्तरगुणानां तु पिण्डविशुद्धयादीनां दिग्वतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात् । तत्र स्वयं कृतभत्याख्यानः काले विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनूच्चारयन् स्वयं जानन् ज्ञस्यैव गुरोः पार्श्वे प्रत्याख्यानं करोति । ज्ञत्वे चै चतुर्भङ्गी-द्वयोर्खत्वे प्रथमो भङ्गः शुद्धः १। मुरोर्जत्वे शिष्यस्याज्ञत्वे द्वितीयः। तत्र तत्कालं शिष्यं संक्षेपतः प्रबोध्य यदा गुरुः प्रत्याख्यानं कारयति तदाऽयमपि शुद्धः, अन्यथा त्वशुद्धः २| शगुरोरज्ञत्वे शिष्यस्य ज्ञत्वे तृतीयः। अयमपि तथाविधगुरोरपातो गुरुबहुमानाद् गुरोः पित-पितृव्य-मातुल-ज्येषभ्रात्रादिका
साक्षिणं कुर्वतस्तृतीयः शुद्धः, अन्यथा त्वशुद्धः ३। द्वैमोरङ्गत्वे अशुद्ध एव ४ । है उत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगि द्विविध-संकेतप्रत्याख्यानमद्धाप्रत्याख्यानं च। तत्र संकेतप्रत्याख्यान श्रावकः पौरुण्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् ‘भोजनमाप्तेः प्राक् प्रत्याख्यानरहितो मा भूवम्'
१ तुला-प्रवचनसारोद्धारवृत्तिः पृ० ११४। धर्मसंग्रहवृत्तिः पृ०१८२ ॥ आवश्यकहारिभद्री पृ० ८०३ ॥ २ ०मनूचरन्कख.मु. प्रवचनसारोद्धारवृत्तौ [पृ० ११४ ] धर्मसंग्रहवृत्ती [पृ० १८३] च॥ ३ च-नास्ति मु०॥ ४ तत्कालशिष्य-सं.॥
५ तुला-पञ्चाशके ५। २-७॥ ६ द्वयोरसत्वे चतुर्थः, असाचशुद्ध एव-भु.॥ ७दृश्यतां प्रवचनसारोद्धारवृत्तिः पृ० १२० । धर्मसंग्रहवृत्तिः पृ० १८३ ।
HDHESHBHEHERDIBHBHBICHCHHERCHOKHOREHERBACHCHCHEME
॥ ७०७॥
For Private & Personal use only
w.jainelibrary.org