________________
॥७०३॥
SELEHEICHERECHEHRESTHENGERSEEECHEHEHEHENSI
2 तत्र चेष्टाकायोत्सर्गोऽष्ट-पञ्चविंशति-सप्तविंशति-त्रिशती-पञ्चशती-अष्टोत्तरसहस्रोच्छासान यावद् भवति, अभिभवकायोत्सर्गस्तु मुहूर्तादारभ्य संवत्सरं यावद् बाहुबलेरिव भवति ।
स च कायोत्सर्ग उच्छ्रित-निषण्ण-शयितभेदेन त्रेधा। एकैकश्चतुर्धा-उच्छ्रितोच्छ्रितो द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावत है। को उच्छ्रितो धर्मध्यान-शुक्लध्याने इति प्रथमः। तथा द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावतोऽनुच्छ्रितः कृष्णादिलेश्यापरिणाम इति । द्वितीयः। द्रव्यतो नोच्छितो नोर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यान-शुक्लध्याने इति तृतीयः । न द्रव्यतो नापि भावत उच्छ्रित इति चतुर्थः। एवं निषण्ण-शयितयोरपि चतुर्भङ्गी वाच्या। न दोषरहितश्च कायोत्सर्गः कार्यः। दोषाश्चैकविंशतिः
आकुश्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः । १ । १" उसिउस्सिओ अतह उस्सिओ अ उस्सियनिसन्नओ चेव। निसनुस्सिओ निसन्नो निसन्नगनिसन्नओ चेव ।। १४७३॥ निवणुस्सिओ निवन्नो निवन्ननिवन्नगो अ नायब्वो। एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ १४७४ ॥
उस्सिअनिसन्नग निवन्नगे य इक्किकगम्मि उ पयम्मि। दवेण य भावेण य चउक्कमयणा उ कायव्वा ।। १४७५ ॥” इति आवश्यकनियुक्तौ ।। २ तुला-प्रवचनसारोद्धारवृत्तिः पृ० १५५-१६१ । धर्मसंग्रहवृत्तिः पृ० १४५। आवश्यकचूर्णी कायोत्सर्गाध्ययने पृ० २६८-२६९ । आवश्यकसूत्रस्प हारिभद्रयां वृत्तौ अपि [पृ० ७९८ ] प्राकृतगाथामिरेते दोषा वर्णिताः। गमणादिषु काउस्सग्गो कीरति, अहवा जदि उवसग्गो अन्नो भवति छिदिति वा तो चलति जोएसो चेट्टाकाउस्सग्गो। एस अणेगविधो पुरतो वण्णिहिजति। ........."अभिभवकाउस्सग्गस्स इमं कालपमाणं-जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं संवत्सरं जथा बाहुबलिस्स।"-आवश्यकचूर्णिः पृ०२४८-२४९ ।।
॥७०३॥
Jain Education Inter
For Private & Personal Use Only
Alw.jainelibrary.org