________________
६८९॥
" स्वस्थानाद् यत् पेरस्थानं प्रमादस्य वशाद् गतः ।
तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ॥१॥" [ प्रतिकूलं वा गमनं प्रतिक्रमणम् , यदाह--
"क्षायोपशमिकाद् भावादौदयिकवशं गतः।
तत्रापि च स एवार्थः प्रतिकूलगमात स्मृतः ॥१॥" [ प्रति प्रति क्रमणं वा प्रतिक्रमणम् ; उक्तं च,
"प्रति प्रति प्रवर्तनं या शुभेषु योगेषु मोक्षफलदेषु।
निःशल्यस्य यतेर्यत् तद् वा ज्ञेयं प्रतिक्रमणम् ॥ १ ॥" [ तच्चातीता-ऽनागत-वर्तमानकालत्रयविषयम्। नन्वतीतविषयमेव प्रतिक्रमणम् , यत उक्तम्--" अईयं पंडिकमामि, हैपडप्पन्नं संवरेमि, अणागयं पञ्चक्खामि" [ ] इति, तत् कथं त्रिकालविषयता ? उच्यते--अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः
१ परं स्थानं-सं. आवश्यकचूाँ प्रतिक्रमणाध्ययने [पृ०५२] प्रवचनसारोद्धारवृत्ती [पृ० ३९] च ॥ २ “क्षायोपशमिकाद्वापि भावादौदयिक गतः। तत्रापि हि स...॥” इति आवश्यकचूर्णी [पृ० ५२] पाठः॥ ३ प्रति-नास्ति खं.॥ ४ “उक्तं कच-पति पति पवत्तणं वा सुभेसु जोगेसु मोक्खफलदेसु। निस्सल्लस्स जतिस्सा जं तेणं तं पडिक्कमणं ॥” इति आवश्यकचूर्णी
Jain Education Inte1981
For Private & Personal Use Only
|www.jainelibrary.org