________________
।। ६८७ ।।
Jain Education Inte
aleeleelone
वियुक्तं ' संजातम् ' इति शेषः । विनयपरिहीणस्यैव द्वैविध्यमाह -- ' मुहुमं वा बायरं वा ' सूक्ष्ममल्पप्रायश्चित्तविशोध्यम्, बादरं बृहत्प्रायश्चित्तविशोध्यम्, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयत्वतुल्य तोद्भावनार्थी, 'तुब्भे जाणहे 'ति यूयं जानीथ सकलभाववेदकत्वात्, 'अहं न याणामि' अहं पुनर्न जानामि, मूढत्वात् । तथा 'यूयं न जानीथ प्रच्छन्नकृतत्वादिना, अहं जानामि स्वयं कृतत्वात्, तथा यूयं न जानीथ परेण कृतत्वादिना, अहं न जानामि विस्मरणादिना, तथा यूयमपि जानीथ अहमपि जानामि द्वयोः प्रत्यक्षत्वात् एतदपि द्रष्टव्यम् । ' तस्स' तस्य षष्ठीसप्तम्योरभेदात् तस्मिन्नप्रीतिक विषये विनयपरिहीणविषये च 'मिच्छामि दुकर्ड' मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा | प्रतिक्रमणमिति पारिभाषिकं वाक्यं प्रयच्छामीति शेषः, अथवा तस्येति विभक्तिपरिणामात् तदप्रीतिकं विनयपैरिहीणं च मिथ्या, मोक्षसाधन विपर्ययभूतं वर्तते मे मम ; तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमणमिति । वन्दनपूर्वके चालोचनक्षमणे भवत इति कृत्वा वन्दनकानन्तरं ते व्याख्याते, अन्यथा प्रतिक्रमणे तयोरवसरः, बन्दनकस्य च फलं कर्मनिर्जरा, यदाहु:--
"1
'वंदणएणं भंते! जीवे किं अज्जिगह ? गोअमा ! अट्ठ कम्मपयडीओ निविडवंधणबद्धाओ सिढिलबंधणबद्धाओ
१ ० परिहीन०- मु. ॥ २ ०नुपात्तसू० मु० ॥ ३ परिहीनं- मु. ॥ ४ वंदणेणं-खं. ॥ ५ वन्दनकेन भदन्त ! जीवः किमर्जयति ? गोतम ! अष्ट कर्मप्रकृतीनिबिडबन्धनबद्धाः शिथिलबन्धनबद्धाः करोति, चिरकालस्थितिकाः अल्पकालस्थितिकाः करोति, | तीव्रानुभावा मन्दानुभावाः करोति, बहुप्रदेशात्रा अल्पप्रदेशाग्राः करोति, अनादिकं च अनवदग्रं संसारकान्तारं न पर्यटति ।
For Private & Personal Use Only
10
॥ ६८७ ॥ www.jainelibrary.org