________________
_ततो गुरुराह–'पडिक्कमह' प्रतिक्रामत। ततः शिष्यः पाह-'इच्छं' इच्छाम्येतद् भगवद्वचः, 'तस्स ' तस्य देवसिकातिचारस्य ‘मिच्छा मि दुक्कडं ' आत्मीयं दुष्कृतं मिथ्येति जुगुप्स इत्यर्थः । | तथा, द्वितीयच्छ(व)न्दनकेऽवग्रहान्तःस्थित एव विनेयोर्धावनतकायः खापराधक्षमणां चिकीर्षुर्गुरुं प्रतीदमाह'इच्छाकारेण संदिसह ' इति, इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना, संदिशत आज्ञा प्रयच्छत यूयम् । आज्ञादानस्यैव विषयमुपदर्शयन्निदमाह
'अब्भुडिओ म्हि अभंतरदेवसिअं खामेमि' अभ्युत्थितोऽस्मि प्रारब्धोऽस्मि अहम् , अनेनाभिलाषमात्रस्य व्यपोहेन । क्षमणाक्रियायाः प्रारम्भमाह-'अब्भंतरदेवसिअं' इति दिवसाभ्यन्तरसंभवम् अंतिचारम्' इति गम्यते, क्षमयामि मर्षयामि है। इत्येका वाचना ___ अन्ये त्वेवं पठन्ति--' इच्छामि खमासमणो अभुढिओ म्हि अभंतरदेवसिअं खामेउं' इति, इच्छामि अभिलपामि क्षमयितुम् इति योगः, हे क्षमाश्रमण !, न केवलमिच्छामि, किन्तु ' अ डिओ म्हि ' इत्यादि पूर्ववदेव ।
१ द्वितीयच्छन्द-इत्येव सर्वासु हस्तलिखितप्रतिषु मु. मध्ये च पाठः। सं. मध्ये 'द्वितीयेच्छन्दनके' इति पाठः। धर्म-125 संग्रहवृत्तौ [पृ० १८१] 'द्वितीयच्छन्दनके' इति पाठः। २०दनकावग्रह-मु. शां. खं.॥ ३ ०क्षामणां-सं. खं. मु.। ४ दिओ
अम्हि-मु० ट्ठिअम्हि-खं. ॥ ५ अभितर-मु.॥ ६ सियं-खं. सं. ॥ ७ अम्भि-मु.॥ ८ सियं-सं.॥ ९ अती०-मु.॥ हे १० ट्ठिओ अम्हि-मु.। ट्ठियम्हि०-खं.॥ ११ अभि-मु.॥ १२ सियं-शां.-सं.॥ १३ श्रवण-खं.॥ १४ टिओ|
अम्हि-मु.। ट्ठिअम्हि-खं.॥
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org