________________
स्वोपज्ञ
वृति
विभूषितं
योगशास्त्रम्
।। ६८४ ॥
Jain Education Inte
Seedecceeder
सम्यक्त्व सामायिकातिचारः शङ्कादिः । देशविरतिसामायिकातिचारं तु भेदेनाह – तिन्हं गुत्तीणं' तिसृणां गुप्तीनां 'यत् खण्डितम्' इत्यादिना सर्वत्र योगः । मनोवाक्कायगोपनात्मिकास्तिस्रो गुप्तयो व्याख्याताः, तासां चाश्रद्धान-विपरीत| प्ररूपणाभ्यां खण्डना विराधना च । चतुर्णां क्रोध-मान- माया - लोभलक्षणानां कषायाणां प्रतिषिद्धानां करणेनाऽश्रद्धान-विपरीतप्ररूपणाभ्यां च । पञ्चानामणुत्रतानां त्रयाणां गुणत्रतानां चतुर्णा शिक्षात्रतानामुक्तस्वरूपाणाम्, अणुव्रतादिमीलनेन द्वादशविधस्य श्रावकधर्मस्य यत् खण्डितं देशतो भग्नम्, यद् विराधितं सुतरां भग्नम् न पुनरेकान्ततोऽभावमापादितम् 'तस्स मिच्छामि दुक्कडं, ' तस्य दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य, तथा गुप्तीनां कषायाणां द्वादशविधश्रावकधर्मस्य च यत् | खण्डनं विराधनं चातिचाररूपं तस्य मिथ्येति प्रतिक्रामामि, दुष्कृतमेतत्, अकर्तव्यमिदं ममेत्यर्थः ।
1
अत्रान्तरे विनेयः पुनरप्यर्धावनतकायः प्रवर्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्धयर्थं सूत्रमिदं | पठति -- सव्यस्स वि देवसिय दुच्चितिय दुब्भासियै दुच्चिट्ठियै इच्छाकारेण संदिसह । सर्वाण्यपि लुप्तषष्ठीकानि पदानि ततोऽयमर्थः - सर्वस्यापि दैवसिकस्याणुत्रतादिविषये प्रतिषिद्धाचरणादिना जातस्यातिचारस्येति गम्यते; पुनः कीदृशस्य ? दुश्चिन्तितस्य, दुष्टमार्तरौद्र ध्यानतया चिन्तितं यत्र स तथा, तस्य, दुश्चिन्तितोद्भवस्येत्यर्थः, अनेन मानसमतीचारमाह । दुष्टं | सावद्यवाग्रूपं भाषितं यत्र स तथा तस्य, दुर्भाषितोत्पन्नस्येत्यर्थः, अनेन वाचिकं सूचयति । दुष्टं प्रतिषिद्धं धावन - वल्गनादिकायक्रियारूपं चेष्टितं यत्र स तथा तस्य, दुश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह । अस्यातिचारस्य किमित्याह - इच्छाकारेण संदिसहेति, आत्मीयेच्छया मम प्रतिक्रमणाज्ञां प्रयच्छत, इत्युक्त्वा तृष्णीको गुरुमुखं प्रेक्षमाण आस्ते ।
१०क्रमामि - मु. ॥ २, ३, ४, ५ खं. मध्ये सर्वत्र 'य' स्थाने 'अ' इति पाठः । ६, ७ यत्र तत् तथा-मु. ॥
For Private & Personal Use Only
तृतीयः प्रकाशः
श्लोकः
१२९
॥ ६८४ ॥
5
षट्सु
आवश्यकेषु
अतिचारा
लोचनम्
10
www.jainelibrary.org