________________
॥ ६८३॥
BENESIRECIREHENEVERNMEHEIRRRIERENCHEHEREHERE
अधुना मानसिकमाह-'दुज्झाओ,' दुष्टो ध्यातो दुर्ध्यात एकाग्रचित्ततयाऽऽतरौद्रलक्षणः। 'दुन्विचिंतिओ,' दुष्टो विचिन्तितो दुर्विचिन्तितः, अशुभ एव चलचित्ततया ।
“जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं ।" [ ध्यानशतके गा० २] इति वचनात् । यत एवेत्थंभूतस्तत एव 'अणायारो,' आचरणीयः श्रावकाणामाचारः, न आचारोऽनाचारः। यत
चरणीयोऽत एव 'अणिच्छियव्वो,' अनेष्टव्यः, मनागपि मनसापि न एष्टव्यः, आस्तां तावत् कर्तव्यः । यत एवेत्थंभूतोऽत एव 'असावगपाउग्गो,' अश्रावकमायोग्यः-अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी शृणोतीति श्रावकः, तस्य प्रायोग्य उचितः श्रावकषायोग्यः, न तथा, श्रावकानुचित इत्यर्थः।
अयं चातिचारः क्व विषये भवतीत्याह-' गाणे दंसणे चरित्ताचरित्ते' इति । ज्ञानविषये, दर्शनविषये, स्थूलसावद्य-है योगनिवृत्तिभावाचारित्रं च सूक्ष्मसावद्ययोगनिवृत्यभावादचारित्रं च चारित्राचारित्रम् , तस्मिन् , देशविरतिविषये इत्यर्थः।।
अधुना भेदेन व्याचष्टे-'सुए' श्रुतविषये, श्रुतग्रहणं मत्यादिनानोपलक्षणम् , तत्र विपरीतप्ररूपणा अकालखाध्यायकवातिचारः। 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिक-देशविरतिसामायिकयोहणम् ।
१ दुविः-खं.॥ २ 'तं हुज भावणा वा अणुपेहा वा अहव चिंता॥' इति उत्तरार्धम्। ३ यत् स्थिरमध्यवसानं तद् ध्यानं यञ्चलं तकं चित्तम् । तद् भवेद् भावना वा अनुप्रेक्षा वा अथवा चिन्ता॥ ४ पाओगो-शां. सं.। दृश्यतां पृ० ६८२ टि०२॥ ५ न श्रावक-शां.॥ ६ प्रयोग्य-खं. सं.॥ ७०अयोग्यः-खं.॥
तत्र
Jain Education Interna
For Private & Personal Use Only
SAjainelibrary.org