________________
॥ ६७९ ॥
Jain Education Internati
leleleis
गुरौ धर्मं कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य ' साधूक्तं भवद्भिः' इत्यप्रशंसतः शिष्यस्योपहतमनस्त्वम् । २७ ।
गुरौ धर्मं कथयति 'इयं भिक्षावेला, सूत्रपौरुपीवेला, भोजनवेला, ' इत्यादिना शिष्येण पर्षद्भेदनम् । २८ ।
गुरौ धर्मari कथयति 'अहं कथयिष्यामि ' इति शिष्येण कथाच्छेदनम् । २९ ।
तथा आचार्येण धर्मकथायां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सविशेषं धर्मकथनम् ||३०| गुरोः पुरत उच्चासने समासने वा शिष्यस्योपवेशनम् । ३१ ।
गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनम्, अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वाऽक्षामणम् ; यदाह
'संघट्टहत्ता कायेणं, तहा उवहिणामवि ।
खमेह अवराहं मे, बइज न पुण त्ति अ ॥ १ ॥ " [ दशचै० ९।२।१८ ] । ३२ ।
44
गुरोः शय्या - संस्तारकादौ स्थानं निषदनं शयनं चेति । ३३ ।
१ " " संघट्टिय
'कान' देहेन कथंचित् तथाविधप्रदेशोपविष्टमाचार्य तथा 'उपधिना' कल्पादिना कथंचित् संघट्टय मिथ्यादुष्कृतपुरःसरमभिवन्द्य ' क्षमस्व' सहस्व 'अपराधं ' दोषं मे मन्दभाग्यस्यैव 'वदेद्' ब्रूयात्, 'न पुनरिति च नाहमेनं भूयः करिष्यामीति सूत्रार्थः " इति दशवैकालिकसूत्रस्य हरिभद्रसूरिरचितायां वृत्तौ पृ० २५० ॥ २ निषीदनं- मु. ॥
arelaal
10
॥ ६७९ ॥
ainelibrary.org