________________
THEHORORCHCHCHEHEREHEHEREMIEREHENSIBIHIROHIMSHISHEHRIST
गमनम् , पृष्ठतोऽप्यासन्नगमनम् , निःश्वास-क्षुत-श्लेष्मपातादिदोषप्रसङ्गात् । ततश्च यावता भूभागेन गच्छत आशातना न भवति तावता गन्तव्यम् । १ । २ । ३।
एवं पुरतः पार्श्वतः पृष्ठतश्च स्थानम् । ४ । ५। ६। तथा पुरतः पार्श्वतः पृष्ठतो वा निषदनम् । ७ । ८ । ९ । आचार्येण सहोच्चारभूमिं गतस्याचार्यात् प्रथममेवाचमनम् । १० । गुरोरोलपनीयस्य कस्यचिच्छिष्येण प्रथममालपनम् । ११ । शिष्यस्याचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात् प्रथममेव गमनागमनालोचनम् । १२ । भिक्षामानीय शिष्येण गुरोः पूर्व शैक्षस्य कस्यचित् पुरत आलोच्य पश्चाद् गुरोरालोचनम् । १३ । भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनम् । १४ । भिक्षामानीय गुरुमनापृच्छय शैक्षाणां यथारुचि प्रभूतभैक्षदानम् । १५ । भिक्षामानीय शैक्षं कश्चन निमन्त्र्य पश्चाद् गुरोरुपनिमन्त्रणम् । १६ । १०रालाप०-सं. मु. धर्मसंग्रहवृत्तौ च पृ० १७७। प्रवचनसारोद्धारवृत्तौ [पृ० ३३] रालप० इति पाठः॥ २ ०मालापनम्-सं. धर्मसंग्रहवृत्तौ च । दृश्यतामुपरितनं टिप्पणम् ॥ ३ भैक्ष्यदानं-मु.॥ शैक्ष-खं.॥ शैक्षकं कंचन-सं.।
TKICHEHEIGHBHEHCHHEHCHEHENSHISHETBHEHEHEHEHREEHICH
॥६७७॥
Jain Education Intema
For Private & Personal Use Only
jainelibrary.org.