________________
॥६६९॥
दृष्कृतया असभ्यपरुषादिवचननिमित्तया। कायदुष्कृतया आसन्नगमन-स्थानादिनिमित्तया। क्रोधया क्रोधयुक्तया। मानया मानयुक्तया। मायया मायायुक्तया। लोभया लोभयुक्तया। अयं भावः-क्रोधाद्यनुगतेन या काचिद् विनयभ्रंशादिलक्षणाऽऽशातना कृता तयेति । एवं दैवसिक्याशातनोक्ता । । अधुना पक्ष-चतुर्मास-संवत्सर कालकृता इहभवान्यभवगताऽतीतानागतकालकृता च या आशातना तस्याः संग्रहार्थ
माह- सव्वकालियाए', सर्वकालेषु भवा सार्वकालिकी, तया। अनागतकाले कथमाशातनासंभवः ? इति चेत , उच्यतेकाश्वोऽस्य गुरोरिदमिदं वानिष्टं काऽस्मि' इति चिन्तया। इत्थं भवान्तरेऽपि तद्वधादिनिदानकरणेन संभवत्येव । सर्व एव है मिथ्योपचारा मातृस्थानगर्भाः क्रियाविशेषा यस्यां सा सर्वमिथ्योपचारा तया। सर्वे धर्मा अष्टौ प्रवचनमातरः सामान्येन ।
करणीयव्यापारा वा, तेषामतिक्रमणं लङ्घनं विराधनं यस्यां सा सर्वधर्मातिक्रमणा, एवंभूतयाऽऽशातनया यो मयातिचारोपराधः कृतो विहितस्तस्यातिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिक प्रतिक्रामामि, अपुनःकरणेन निवर्ते । तथा दुष्टकर्मकारिणं है। निन्दाम्यात्मानं भवोद्विग्नेन प्रशान्तेन चेतसा। तथा गर्दै आत्मानं दुष्टकर्मकारिणं युष्मत्साक्षिकम् । व्युत्सृजाम्यात्मानं दष्टकर्मकारिणं तदनुमतित्यागेन । | १ चातु०-मु.॥ २ इहभवान्यभवातीतानागत-सं.। इहभवान्यभवकृताऽतीतानागत०-धर्मसंग्रहवृत्ती पृ० १७८ ॥ "अधुना इहभवान्यभवगतातीतानागतकालसंग्रहार्थमाह-सर्वकालेन अतीतादिना निर्वृत्ता सार्वकालिकी, तया"-आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ०५४८॥ ३ सर्व-खं. सं. धर्मसंग्रहवृत्तौ च पृ० १७८ । सार्व० इति आवश्यकसूत्रस्य हारिभद्रयां है वृत्तौ पृ० ५४८॥ ४ प्रतिक्रमामि-मु०॥
Jain Education Inter
For Private & Personal Use Only
Jww.jainelibrary.org