________________
॥६६७॥
___ एवं योजितकरसम्पुटं गुरोः प्रतिवचनमीक्षमाणं शिष्यं प्रत्याह गुरु:--'तह त्ति' तथेति, प्रतिश्रवणेऽत्र तथाकारः, यथा भवान् ब्रवीति तथेत्यर्थः। एवं तावदाचार्यशरीरवार्ता पृष्टा । ____ अथ तपोनियमविषयां वार्ता पृच्छन्नाह -जत्ता भे, 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पृष्ट्वा रजोहरण-ललाटयोरन्तराले 'ता' इति स्वरितेन स्वरेणोचार्य, उदात्तस्वरेण भे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिललाटं स्पृशति, यात्रा संयम-तपो-नियमादिलक्षणा क्षायिक-क्षायोपशमिकौपशमिकभावलक्षणा वा 'भे' भवताम् 'उत्सर्पति' इति गम्यते । । अत्रान्तरे गुरोः प्रतिवचनम् 'तुब्भं पि वट्टइ', मम तावदुत्सर्पति, भवतोऽप्युत्सर्पति ? ___अधुना नियन्त्रणीयपदार्थविषयां वार्ता पृच्छन् पुनरप्याह विनेयः-'जवणिजं च भे', 'ज' इत्यनुदात्तस्वरेण रजोहरणं स्पृष्ट्या 'व' इति स्वरितस्वरेण रजोहरण-ललाटयोरन्तराले उच्चार्य ‘णि' शब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्धसमाप्तत्वात् प्रश्नस्य, ततो 'जं' इत्यनुदात्तस्वरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरण-ललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य 'भे' इत्युदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृष्ट्वा प्रतिवचनं शुश्रूषमाण- स्तथैवास्ते । 'जवणिज्जं च' यापनीयमिन्द्रिय-नोइन्द्रियोपशमादिना प्रकारेणाबाधितं च 'भे' भवतां 'शरीरम्' इति गम्यम् । एवं परया भक्त्या पृच्छता विनेयेन विनयः कृतो भवति । अत्रान्तरे गुरुराह-'एवं' आमं, 'यापनीयं च मे' इत्यर्थः।
१ आम-शां. विना। आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ५४७ ] 'आम' इति वर्तते, धर्मसंग्रहवृत्तौ तु [पृ० १७६ | को 'आम' इति वर्तते। अभिधानचिन्तामणौ षष्ठे काण्डे तु " स्यादा औं परमे मते ॥१७६॥” इति वर्तते ।
10
Jain Education Interna
For Private & Personal Use Only
Sen.jainelibrary.org