SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ।। ६५९ ।। Jain Education Inter ralalaladar गौरवात्, बन्दनकसामाचारीकुशलोऽहमिति गर्वादन्येऽप्यवगच्छन्तु मामिति यथावदावर्तादीनाराधयतो वन्दनम् । १४ । कारणाद् ज्ञानादिव्यतिरिक्ताद्वखादिलाभ हेतोर्वन्दनम्, यद्वा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीत्यभिप्रायतो वन्दनम्, यद्वा वन्दनकमूल्यवशीकृतो मम प्रार्थनाभङ्गं न करिष्यतीति बुद्धया वन्दनम् । १५ । स्तेनिकम्, मा मे लाघवं भविष्यतीति परेभ्य आत्मानं निगूहयतो वन्दनम् । अयमर्थः - एवं नाम शीघ्रं वन्दते यथा | स्तेनवत् केनचिद् दृष्टः केनचिनेति । १६ । प्रत्यनीकम्, आहारादिकाले वन्दनम् । १७ । यदाह " वक्खित्तपराहुत्ते अ पमते मा कया वि वंदेखा । आहारं च करिंते नीहारं वा जइ करेइ ॥ १ ॥ " [ आवश्यकनिर्युक्तौ १२१२] रुष्टम्, क्रोधाध्मातस्य गुर्रोवन्दनमात्मना वा क्रुद्धेन वन्दनम् । १८ । १ स्तेनकं-सं. । स्तैनिकं मम लाघवं मु. धर्मसंग्रहवृत्तौ [ पृ० १७३ ] च । “ स्तैन्यमिति परेभ्यः खल्वात्मानं गृहयन् | स्तेनक इव बन्दते मा मे लाघवं भविष्यति” – आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ० ५४४ ॥ २ ०पराहुत्ते पमत्ते-सं. मु. धर्मसंग्रहवृत्तौ [ १० १७२ ] प्रवचन सारोद्धारे विचार सारे च । “व्याक्षिप्तं धर्मकथादिना 'पराहुत्ते य' पराङ्मुखम्, चशब्दादुद्भू (त्थि )तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद् वन्देत, आहारं वा कुर्वन्तम्, नीहारं वा यदि करोति” इति आवश्यकसूत्रस्य | हारिभद्रयां वृत्तौ पृ० ५४१ ॥ गाथेयं प्रवचनसारोद्धारे १२४, विचारसारे ७३६ ॥ For Private & Personal Use Only leeeeeeee 10 ॥ ६५९ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy