SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ यदा पुनः कृतावतों निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय पुनश्छन्दोऽनुज्ञापनायैव तदा द्वितीयम् । २ । तथा यथाजातम् , जातं जन्म, तच्च द्वेधा-प्रेसवः प्रव्रज्याग्रहणं च । तत्र प्रसवकाले रचितकरसंपुटो जायते प्रव्रज्याकाले । च गृहीतरजोहरणमुखवत्रिक इति यथा जातमस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातम् ॥ ३॥ तथा द्वादशावर्ताः कायचेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरःस्थापनरूपा यस्मिंस्तद् द्वादशावर्तम् । इह च प्रथमप्रविष्टस्य अहोकायं' इत्यादि सूत्रोच्चारणगर्भाः षडावर्ताः, निष्क्रम्य पुनः प्रविष्टस्याऽपि त एव षडिति द्वादश ॥ १५ ॥ चत्वारि शिरांसि यस्मिन् तच्चतुःशिरः, प्रथमप्रवेशे क्षामणाकाले शिष्याचार्ययोरवनमच्छिरोद्वयम् , निष्क्रम्य पुनः प्रवेशे तथैव च शिरोद्वयम् । १९। त्रिगुप्तं मनोवाक्कायकर्मभिर्गुप्तम् । २२ । ___ तथा प्रथमोऽनुज्ञाप्य प्रवेशो द्वितीयः पुनर्निर्गत्य प्रवेश इति द्वौ प्रवेशौ यत्र तद् द्विप्रवेशम् । २४ । एकं निष्क्रमणमावेश्यिक्या निर्गच्छतो यत्र तदेकनिष्क्रमणम् । २५। १ हस्तलिखितादर्शषु अत्र 'पुनश्छन्दोऽनुशापनायैव' इत्येव पाठः। अन्यत्र तु सर्वत्र 'छन्द'शब्द एव प्रयुक्तो हेमचन्द्रसूरिपादैः। दृश्यतां पृ०६५४ टि० १०॥ २ प्रभवः-मु.॥ ३ स्थापनारूपा-मु. शां.। धर्मसंग्रहवृत्तौ [पृ० १७०] आवश्यकहारिभद्रयां [पृ० ५४३] च ॥ १ ०वश्यक्या-सं. मु. आवश्यकहारिभद्रयां च पृ०५४३ । D iainelibrary.org Jain Education Interatis
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy