________________
प्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । अत्र चायं विधिः
"जिणपूओचियदाणं परियणसंभालणा उचियकिच्चं । ___ठाणुवएसो य तहा पच्चक्खाणस्स संभरणं ॥ १॥" [ ] तथा भोजनानन्तरं सम्भवतो ग्रन्थिसहितादेः प्रत्याख्यानस्य करणम् , प्रमादपरिजिहीर्षोर्हि प्रत्याख्यानं विना न युक्त क्षणमप्यासितुम् । शास्त्रार्थानां रहस्यानि ऐदंपर्याणि विचारयेत इदमित्थं भवति नेति वा सम्प्रधारयेत् , कथं? सह सार्धम् कैः? तद्विद्भिः, तच्छास्त्रार्थरहस्यं विदन्ति ये तैः, गुरुमुखात् श्रुतान्यपि शास्त्रार्थरहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीति कृत्वा ॥ १२८ ॥
ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः ।
कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ॥ १२९ ॥ ततस्तदनन्तरं यो द्विर्भुङ्क्ते स विकालसमये अन्त्यमुहूर्तादर्वाग् भोजनं कृत्वा सन्ध्यासमये पुनस्तृतीयवारं देवार्चनं । कृत्वा साधुसमीपं गत्वा भूमिकौचित्येन षड्विधावश्यकं सामायिक-चतुर्विंशतिस्तव-वन्दनक-प्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानलक्षणं कुर्यात् । तत्र सामायिकमार्तरौद्रध्यानपरिहारेण धर्मध्यानकरणेन शत्रु-मित्र-तृण-काश्चनादिषु समता, तच्च पूर्वमेवोक्तम् ।।
१ जिनपूजोचितदानं परिजनसम्भालना उचितकृत्यम् । स्थानोपदेशश्च तथा प्रत्याख्यानस्य संस्मरणम् ॥ २ अन्तर्मुहू-मु.॥ २१३ ध्यानपरिकरणेन-मु.॥ ४ पृ०४७६ पं०८॥
॥ ६५३ ॥
For Private & Personal Use Only
S
Jain Education Intec ial
ww.jainelibrary.org