SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् प्रकाशः . श्लोको ॥ ६५२॥ ततो गुरुपार्श्वे धर्मदेशनां श्रुत्वा तृतीयः ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधीधर्माविरोधेन विदधीतार्थचिन्तनम् ॥ १२७ ॥ कि १२७-१२८ ततो देवगृहात् प्रतिनिवृत्तो व्यावृत्तः सन् यथोचितं स्थानं गत्वा, यथोचितमिति यदा राजादिस्तदा धवलगृहं यद्यमात्या ॥६५२॥ दिस्तदा करणम् अथ वणिगादिस्तदा आपणमिति, सुधीर्बुद्धिमान् विदधीत अर्थचिन्तनमर्थोपायचिन्तां धर्माविरोधेनेति धर्मस्य । जिनधर्मस्य अविरोधेन अबाधया। अत्र चार्थचिन्तनमित्यनुवाद्यं तस्य खतःसिद्धत्वात्, धर्माविरोधेनेति विधेयमप्राप्तत्वात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्या-ऽमान्ययोरुत्तम-नीचयोर्माध्यस्थ्येन न्यायदर्शनात् , नियोगिनां च राजार्थ-प्रजार्थसाधनेन, किश्राद्धदिनवणिजां च कूटतुलाकूटमानादिपरिहारेण पञ्चदशकर्मादानपरिहारेण च बोद्धव्यः ॥ १२७ ॥ ततो माध्याह्निकी पूजां कुर्यात् कृत्वा च भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ॥ १२८ ॥ ततस्तदनन्तरं माध्याह्निकी मध्याह्नकालभाविनी पूजां जिनसपर्या कुर्यात् , कृत्वा विधाय च भोजनमित्यनुवादः। माध्याह्निकीपूजा-भोजनयोश्च न कालनियमः। तीव्रबुभुक्षोर्हि बुभुक्षाकालो भोजनकाल इति रूढेमध्याह्लादगिपि गृहीत १०बुभुक्षोहि-शां. खं. सं.॥ चर्या Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy