________________
प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुपतिपत्तिं श्लोकद्वयेन दर्शयति--
अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥ १२५ ॥ आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् ।
तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥ १२६ ॥ अभ्युत्थानं ससम्भ्रममासनत्यागः तदालोके गुरूणामालोकने सति, अभियानमभिमुखं गमनं तदागमे गुर्वागमने, शिरसि मस्तके गुरुदर्शनसमकालमञ्जलिसंश्लेषः करकोरककरणं 'नमो खमासमणाणं' ति वचनोचारपूर्वकम् , स्वयमित्यात्मना न तु परप्रेषणेन आसनढौकनमासनसन्निधापनम् ॥ १२५ ॥
आसनाभिग्रहः आसन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रहः आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशद्धं वन्दनकम , स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्यापासनं सेवा. तेषां गुरूणां याने गमनेऽ नुगमनं पृष्ठतः कतिपयपदान्यनुसरणम् । इयं प्रतिपत्तिरुपचारविनयरूपा गुरोर्धर्माचार्यस्य ॥ १२६ ॥
१ गुर्वागमे-मु. शां.॥ २ वन्दनम्-मु. ॥ ३ ०पदाद्यनु०-शां. । ०पदानु०-मु.॥
SHCHHCHCHICICICHERSHISHISHEHEHOREHEROHIBHEHEREHEHERE
॥६५
॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org