________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ६५० ॥
Helelelelek
" माता पिता कलाचार्य एतेषां ज्ञातयस्तथा ।
वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ १ ॥ " [ योगबिन्दौ गा० ११० ]
परार्थ करणं सत्त्वार्थकरणं जीवलोकसारं पौरुषचिह्नमेतत् । सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवती| त्याह- शुभगुरुयोगो विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, तथा तद्वचनसेवा सद्गुरुवचनसेवना, न जातुचिदयमहितमुपदिशति, आभवमा संसारमखण्डा सम्पूर्णा । इदं च प्रणिधानं न निदानरूपम्, प्रायेण निस्सङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादवक कर्तव्यम्, अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात् । तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनम् ॥ १२३ ॥
इदानीमनन्तरकरणीयमाह -
ततो गुरूणामभ्यर्णे प्रतिपत्तिपुरःसरम् ।
विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥ १२४ ॥
,
ततोऽनन्तरं गुरूणां धर्माचार्य्याणां देववन्दनार्थमागतानां स्नात्रादिदर्शनधर्मकथाद्यर्थं तत्रैव स्थितानामभ्यर्णे उचिते समीपे, उचितत्वं चार्धचतुर्थहस्तप्रमाणात् क्षेत्राद् वहिरवस्थानम् प्रतिपत्तिर्व्याख्यास्यमाना वन्दनकादिरूपा वा, तत्पुरःसरं तत्पूर्वकम् विदधीत कुर्य्यात्, विशुद्धात्मा निर्मलचितो न तु दम्भादियुक्तः, प्रत्याख्यानस्य देवसमीपे कृतस्य प्रकाशनं गुरोः पुरतः प्रकटनम् त्रिविधं हि प्रत्याख्यानविधानमात्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च ॥ १२४ ॥
१ देवसाक्षिकप्रत्याख्यानस्य - खं. ॥
Jain Education Monal
For Private & Personal Use Only
eeeeee
deeeeex
तृतीयः प्रकाशः
श्लोकः १२४
॥ ६५० ॥
5
प्रत्याख्यानविधिः
10
www.jainelibrary.org