SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ॥६४७॥ अयमत्र भावः-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य हेतुर्भवति यथाभूतात् श्रेणिमवाप्य निस्तरति भवोदधिमिति, अतः कार्ये कारणोपचारादेवमुच्यते । न च चारित्रस्य वैफल्यम् , तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एतास्तिस्त्रः स्तुतयो गणधरकृतत्वाद् नियमेनोच्यन्ते। केचित्तु अन्ये अपि स्तुती पठन्ति, यथा-- उज्जिंतसेलसिहरे दिक्खा नाणं निसीहिया जस्स। तं धम्मचक्ववट्टि अरिट्टनेमि नमसामि ॥ ४ ॥ चत्तारि अट्ठ दस दो य वंदिया जिणवरा चउवीसं । परमट्ठनिटिअट्ठा सिद्धा सिद्धिं मम दिसंतुं ॥५॥ सुगमे। एवमेतत् पठित्वोपचितपुण्यसम्भार उचितेप्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थ पठति पठन्ति वा-- ___ वेयायचेगराणं संतिगराणं सम्मदिविसमाहिगराणं करेमि काउस्सग्गं । वैयावृत्यकराणां प्रवचनार्थ व्यापृतभावानां गोमुखयक्षा-प्रतिचक्राप्रभृतीनाम् , शान्तिकराणां सर्वलोकस्य, सम्यग्दृष्टिविषये समाधिकराणाम् , एषां सम्बन्धिनं षष्ठयाः सप्तम्यर्थत्वादेतद्विषयमेतान् वा आश्रित्य करोमि कायोत्सर्गम्। का १ दो वंदिआ-खं.॥ २ चउव्वीसं-शां.॥ ३ परमत्थनि०-.॥ ४ दिसंति-शां.॥ ५ ०ञ्चकराणं-शां. खं.॥ ६ ०न्धिनां-मु.॥ REACHECHEHREEEEEEECHCHEHEREHEHEHCHEHCHEHCHESH For Private & Personal Use Only w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy