SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 5 इत्थं स्तुतिं कृत्या पुनः परोपकाराय आत्मभाववृद्धये च फलप्रदर्शनपरमिदं पठति तृतीयः । स्वोपचएक्को वि नमोकारो जिणवरवसहस्स बद्धमाणस्स । प्रकाशः वृत्तिविभूषितं श्लोकः १२३ संसारसागराओ तारेइ नरं व नारि वा ॥३॥ योगशास्त्रम् एकोऽप्यासतां बहवः, नमस्कारो द्रव्यभावसंकोचलक्षणः, जिनवरवृषभाय, जिनाः श्रुतावधिजिनादयः, तेषां वराः, ॥६४६॥ केवलिनः, तेषां वृषभः तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभः, तस्मै । स च ऋषभादिरपि भवतीत्याह-वर्धमानाय । है यत्नात् कृतः सन्निति शेषः । किम् ? संसरणं संसारस्तियनरनारकामरभवानुभवलक्षणः, स एव भवस्थिति-कायस्थितिभ्यामनेकधावस्थानेनालब्धपारत्वात् सागर इव संसारसागरः, तस्मात् तारयति पारं नयतीत्यर्थः । कमित्याह-नरं वा नारी वा।। 'सिद्धाणं नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम् , नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे सूत्रव्याख्या | "नो खलु इत्थी अजीवो, न यावि अभव्वा, न यावि दंसणविरोहिणी, नो अमाणुसा, नो अणायरिउप्पन्ना, नो असंखेजाउआ, नो अइकूरमई, नो न उवसंतमोहा, नो न सुद्धाचारा, नो अमुद्धबुंदी, नो ववसायवजिआ, नो अपुव्वकरणविरोहिणी, नो नवगुणट्ठाणरहिआ, नो अजोग्गा लद्धीए, नो अकल्लाणभायणं ति कहं न उत्तमधर्मसाहगा ?" [ ] इति । १ इक्को वि नमु०-मु.॥ २ ०सायराओ-शां. सं. ॥ ३ °नुभाव०-मु.॥ ४ अस्य यापनीयतन्त्रपाठस्य विस्तरेण व्याख्या : ललितविस्तरायां वर्तते ॥ ५ अमाणुस्सा-मु.॥ ६ अणायरियउप्पन्ना-मु.। 'अणारिउप्पत्ती'-ललितविस्तरा। ७ नो अणुवसन्तमोहा नो असुद्धाचारा नो असुद्धबोंदी-भु.॥ ८ धम्मस्स साह-मु.। "धम्मसाहिग ति"-ललितविस्तरा। HEHEREHEREICHEHCHEHRISTRICTCHEHEHEHEREHSHEHEMESHOTSTE BACHERENCHEHEACHEICICICICICIENCIRCISISNCHEHSHESHSAKCISHCHK बुद्धाणं'. Jain Education www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy