________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ६४२ ॥
Jain Education Inte
तत्र तीर्थे चतुर्विधश्रमणसचे उत्पन्ने सति ये सिद्धाः ते तीर्थसिद्धाः । १ ।
अतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धाः अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा, तदा तीर्थस्याऽनुत्पन्नत्वात् । २ ।
तीर्थकर सिद्धाः तीर्थ करत्वमनुभूय सिद्धाः । ३ । अतीर्थकरसिद्धाः सामान्यकेवलित्वे सति सिद्धाः । ४ । स्वयं बुद्धाः सन्तो ये सिद्धाः ते स्वयं बुद्धसिद्धाः | ५ | प्रत्येकबुद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः | ६ |
स्वयं बुद्ध - प्रत्येकबुद्धयोथ बोध्युपधि - श्रुत - लिङ्गकृतो विशेषः -स्वयंबुद्धा हि बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धास्तु बाह्यप्रत्ययेन वृषभादिना करकण्ड्रादिवत् । उपधिस्तु स्वयंबुद्धानां पात्रादिर्द्वादशधा, प्रत्येकबुद्धानां प्रावरणवर्जी नवविधः । स्वयं बुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव । लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता लिङ्गं प्रयच्छति ।
बुद्धा आचार्या अवगतत्तत्त्वाः, तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धाः । ७ ।
एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित् पुल्लिङ्गसिद्धाः केचित् नपुंसकलिङ्गसिद्धाः । ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिद्धा भवन्ति ? भवन्त्येव यदुक्तं सिद्धमाभृते
१ पुलिंग०-खं. सं. । पुलिंग०- शां. ॥ २ भवन्ति उच्यते भवन्त्येव मु० ॥
eeeeee
तृतीयः
प्रकाशः
श्लोक १२३
।। ६४२ ।।
5
'सिद्धाणं
बुद्धाणं 'सूत्रव्याख्या
10
www.jainelibrary.org