SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ॥४१॥ ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावद् गतिः ? उच्यते-पूर्वप्रयोगादियोगात् । यदाह पूर्वप्रयोगसिद्धबन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा सिद्धस्योचं गतिः सिद्धा ॥१॥ [प्रशमरतौ २९५ ] ननु सिद्धिक्षेत्रात् परतोऽधस्तिर्यग् वा कस्मान्न गच्छन्ति ? अत्राप्युक्तम् "नाधो गौरवविगमादसङ्गभावाच्च गच्छति विमुक्तः। लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥ १ ॥ योगप्रयोगयोश्वाभावात्तिर्यग् न तस्य गतिरस्ति । तस्मात् सिद्धस्योर्ध्व ह्या लोकान्ताद्गतिर्भवति ॥ २॥" [प्रशमरतौ २९३-९४ ] इति । नमः सदा सर्वसिद्धेभ्यः। नमो नमोऽस्तु, सदा सर्वकालम् , सर्वसिद्धेभ्यः सर्व साध्यं सिद्धं येषां ते सर्वसिद्धाः, तेभ्यः। अथवा सर्वसिद्धेभ्यः तीर्थसिद्धादिभेदेभ्यः, यथोक्तम् "तित्थसिद्धा १, अतित्थसिद्धा २, तित्थयरसिद्धा ३, अतित्थयरसिद्धा ४, सयंयुद्धसिद्धा ५, पत्तेयबुद्धसिद्धा ६, बुद्धबोहिअसिद्धा ७, थीलिंगसिद्धा ८, पुरिसलिंगसिद्धा ९, नपुंसकलिंगसिद्धा १०, सलिंगसिद्धा ११, अन्नलिंगसिद्धा १२, गिहिलिंगसिद्धा १३, एगसिद्धा १४, अणेगसिद्धा १५ ।" [प्रज्ञापनासूत्रे प्रथमपदे सू० १६] TERRRECHARGHEHEVCHATERIEVEHICHOTICIENCHHETROOK ॥ ६४१॥ Jain Education Inter A For Private & Personal Use Only Sillainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy