SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ॥ ६३९ ॥ Jain Education Int सिद्धो गौतमवत् । अर्थो धनम्, स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत् । जले स्थले वा यस्याविना यात्रा स यात्रासिद्धस्तुण्डिकवत् । यमर्थमभिप्रैति तमर्थं तथैव यः साधयति सोऽभिप्रायसिद्धोऽभय कुमारवत् । यस्य सर्वोकृष्टं तपः स तपः सिद्धो दृढप्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्मनिर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत् । अतः कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह-- बुद्धेभ्यः, अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिद्धा इत्यर्थः तेभ्यः । एते च संसार- निर्वाणोभयपरित्यागस्थितिमन्तः कैश्चिदिष्यन्ते" न संसारे न निर्वाणे स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां चिन्तारत्नाधिको महान् ॥ १ ॥ " ] | इति वचनात् । एतन्निरासायाह - पारगतेभ्यः पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगताः, तेभ्यः । एते च यदृच्छावादिभिः कैश्चिद्दरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाभिधीयन्ते, तद्व्युदासार्थमाह-परम्परगयाणं, परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया, अथवा कथञ्चित् कर्मक्षयोपशमादिसामग्रया सम्यग्दर्शनं तस्मात् सम्यग्ज्ञानं तस्मात् | सम्यक् चारित्रमित्येवम्भूतया गता मुक्तिस्थानं प्राप्ताः परम्परागताः तेभ्यः । १० सार्थमाह- मु. ॥ For Private & Personal Use Only 5 10 ॥ ६३९ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy