________________
। ६३७॥
शेषाणाम् , देवमित्यनुस्वारः छन्दःपूरणे, तथा च संयमवन्तोऽय॑न्त एव देवादिभिः । यत्र जिनमते, किं यत्र ? लोकनं लोको | ज्ञानम् , प्रतिष्ठितः तद्वशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योगः। केचिन्मनुष्यलोकमेव जगन्मन्यते, अत आहत्रलोक्यमासुरमाधाराधेयरूपम् । अयमित्थम्भूतो धर्मः श्रुतधर्मो वर्धतां वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणं शाश्वतमत्रच्युत्या वर्धतामिति, विजयतः परप्रवादिविजयेन, धर्मोत्तरं चारित्रधर्मोत्तरं वर्धताम्, पुनर्वृद्धयभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः काय्या इति प्रदर्शनार्थम् । तथा च तीथकरनामकमेहेतून् प्रांतपादयतोक्तम्| "अर्पव्वनाणगहणे" [आवश्यकनियुक्तौ गा० १८१ ] इति । प्रणिधानमेतद् मोक्षबीजकल्पं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्गार्थं पठति पठन्ति वा ।--
सुअस्स भगवओ करेमि काउसंग्गमित्यादि वोसिरामीति यावत् , अर्थः पूर्ववत् , नवरं श्रुतस्येति प्रवचनस्य सामायिकादेविन्दुसारपर्यन्तस्य, भगवतो यशोमाहात्म्यादियुक्तस्य । ततः कायोत्सर्गकरणम् , पूर्ववत् पारयित्वा श्रुतस्य स्तुति है। पठति । ततश्च अनुष्ठानपरम्पराफलभूतेभ्यः सिद्धेभ्यो नमस्करणायेदं पठति पठन्ति वा
१ लोकनं-नास्ति शां.॥ २०मुपयात्-खं.। मुपायात्-सं. ॥ ३ परवादि०-मु.॥ ४ “अप्पुब्वनाणगहणे १८ सुयभत्ती १९ पवयणे पभावणया २०। एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ॥१८१॥” इति संपूर्णा गाथा। प्रवचनसारोद्धारे [गा
३१२] विचारसारेऽपि च गा. ५३] गाथेयं वर्तते ।। ५ पटन्ति च-शां. सं. सं. । ललितविस्तरायामपि 'पठन्ति वा' इत्येच कापाठः। ६ ०सग्गं-शां.॥ ७ नमस्कारकरणायेदं-मु.॥......
॥६३७॥
Jain Education
|www.jainelibrary.org