SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ॥ ६३५॥ निरासेनैवास्य प्रवृत्तेः। सुरगणैश्चतुर्विधामनिकायैर्नरेन्द्रैश्चक्रवादिभिर्महितः पूजितः, तस्य । आगममहिमां हि कुर्वन्त्येव ।। सुरादयः । सीमां मर्यादाम् , सीमायां वा धारयतीति सीमाधरस्तस्य, श्रुतधर्म इति विशेष्यम् , ततः कर्मणि द्वितीया, तस्याश्च "चिद द्वितीयादेः" [सि० ८।३।१३४] इति प्राकृतसूत्रात् षष्ठी, अतस्तं वन्दे । तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी, अथवा तस्य वन्दे वन्दनं करोमीति । प्रकर्षण स्फोटितं विदारितं मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य। श्रुतधर्मे हि सति विवेकिनो मोहजालं विलयमुपयात्येव । इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदाणवनरिंदगणचियस्स, धम्मस्स सारमुक्लब्भ करे पमायं १ ॥ ३॥ कः सचेतनः, धर्मस्य श्रुतधर्मस्य, सारं सामर्थ्यम् , उपलभ्य विज्ञाय, श्रुतधोंदितेऽनुष्ठाने प्रमादमनादरं कुर्यात् न कश्चित् कुर्यादित्यर्थः । किंविशिष्टस्य श्रुतधर्मस्य ? जातिर्जन्म, जरा विश्रसा, मरणं प्राणनाशः, शोको मानसो दुःखविशेषः, 2010 तान प्रणाशयति अपनयति जातिजरामरणशोकप्रणाशनः, तस्य । श्रुतधर्मोक्तानुष्ठानाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तम् । कल्यमारोग्यमणति शब्दयति इति कल्याणम् , पुष्कलं सम्पूर्णम् , न च तदल्पं किन्तु विशालं १ सुरासुरादयः-मु. खं.। ललितविस्तरायामपि 'सुरादयः' इति पाठः॥ २ मोहजालं मिथ्यात्वादिरूपं विलयं-म. ॥ ६३५॥ ३ विस्रसा-खं. HEHEHRISHCHCHCHEICHCHEHRCHCHERRICHECHEHREETCHEHERE JainEducation Inseenal For Private & Personal Use Only |www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy